SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ द्वादशं हरिकेशी श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । याख्यमध्ययनम्। हरिकेशमुनेः सौत्री वक्तव्यता। ॥१७८॥ वृत्तिमपि म्लेच्छकुलादपि । एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१॥" तान्येव मुनिलक्षणामि क्षेत्राणि मुपेशलानीति | प्राग्वदिति सूत्रार्थः ॥ १५॥ इत्थमध्यापकं यक्षेण निर्मुखीकृतमवलोक्य तच्छात्राः प्राहु:---- अज्झावयाणं पडिकूलभासी, पभाससे किन्नु सगासे अम्हं। अवि एतं विणस्सउ अन्नपाणं, ण य णं दाहामु तुम नियंठा!॥१६॥ व्याख्या-अध्यापकानाम्' उपाध्यायादीनां प्रतिकूलभाषी सन् त्वं 'प्रभाषसे' प्रकर्षण ब्रूषे, 'किमिति क्षेपे, 'तुरित्यक्षमायाम् , ततश्च धिग् भवन्तं न वयं क्षमामहे यद् इत्थं भवान् ब्रूते 'सफाशे' समीपे अस्माकम् । 'अपि' सम्भावने, 'एतत्' परिदृश्यमानं 'विनश्यतु' कुथितादिभावमाप्नोतु अन्नपानम् , 'नच' नैव "गं" वाक्यालङ्कारे "दाहामु" त्ति दास्यामस्तव हे 'निम्रन्थ !' निष्किश्चन !, गुरुप्रत्यनीको हि भवानिति भाव इति सूत्रार्थः॥ १६ ॥ यक्ष आह समितीहिं मज्झं सुसमाहियस्स, गुत्तीहि गुत्तस्स जितिंदियस्स। जा मे ण दाहित्थ अहेसणिज्जं, किमज जन्नाण लभित्थ लाभं? ॥ १७॥ व्याख्या-'समितिमिः' ईयोसमित्यादिभिर्मह्यं 'सुसमाहिताय' सष्ठ समाधिमते 'गुप्तिभिः' मनोगुप्त्यादिभिगुप्ताय जितेन्द्रियाय, चतुर्थ्यर्थे सर्वत्र षष्ठी, 'यदी'त्यभ्युपगमे 'मे' मह्यं "मझं" तीत्यस्य व्यवहितत्वात् पुनरुपादानमदुष्टमेव, न दाखथ, 'अथे'त्युपन्यासे 'एषणीयम्' एषणाविशुद्धमन्नादि किं' न किञ्चिवित्यर्थः अद्य यज्ञानां लप्स्यथ 'लाभ' पुण्यप्राप्तिरूपम् । पात्रदानादेष हि विशिष्टपुण्यावाप्तिः, अन्यत्र तु तथाविधफलाभावेन दीयमानस्य हानिरेव । उक्त हिदधिमधुधुताम्यपात्रे, क्षिप्तानि यथाऽऽशु नाशमुपयान्ति । एवमपात्रे दत्तानि केवलं नाशमुपयान्ति ॥ १॥" इति सूत्रार्थः॥ १७ ॥ इत्थं तेनोक्ते यध्यापक आह तदुच्यते-- ॥१७८॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy