SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ हरिकेशमुनेः सौत्री वक्तव्यवा। भक्तसूपादि 'अन्नम्' अशनं 'प्रभूत' बहु 'भवतां' युष्माकं सम्बन्धि 'एतत्' प्रत्यक्षम् , तथा 'जानीत' अवगच्छव | KI"मे" ति सूत्रत्वाद् मां याचनजीवन-याचनेन जीवनशीलं द्वितीयार्थे षष्ठी, 'इति' अस्माद्धेतोः 'शेषाऽवशेषम्' उद्धरितस्याप्युद्धरितं लभतां 'तपस्वी' यतिः इति सूत्रद्वयार्थः ॥ ९-१०॥ एवं यक्षेणोक्के ते प्राहुः उवक्खडं भोयण माहणाणं, अत्तट्टियं सिद्धमिहेगपक्खं । ण उ वयं एरिसमन्नपाणं, दाहामु तुन्भं किमिहं ठिओ सि॥११॥ न्याख्या-'उपस्कृत' संस्कृतं भोजनं 'माहनाना' ब्राह्मणानाम् आत्मार्थे भवमात्मार्थिकं ब्राह्मणैरप्यात्मनैव भोज्यं न त्वन्यस्मै देयम्, किमिति १ यतः 'सिद्धं निष्पन्न 'इह' यज्ञे, एकः पक्ष:-ब्रामणलक्षणो यस्य तदेकपक्षम्, किमुक्त भवति ?-पदस्मिनुपस्क्रियते न तद् ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शूद्राय । यत उक्तम्-"म शुदाय मति |वद्यानोच्छिष्टं न हविःकृतम् । न चास्योपदिशेद्धर्म, न चास्य अवमादिशेत् ॥ १॥" यतश्चैवमतो 'न तु' नैव वयं| 'ईशम्' उक्तरूपम् अन्नपानं दास्यामस्तुभ्यम् , किम् इह स्थितोऽसि ? इति सूत्रार्थः ॥ ११ ॥ यक्ष आह थलेसुबीयाई वति कासगा, तहेव निन्नेसु य आससाए । एयाए सद्धाए दलाह मनं, आराहए पुनमिणं खु खेत्तं ॥१२॥ व्याख्या-स्थलेषु' उच्चभूभागेषु 'बीजानि' मुद्गादीनि वपन्ति 'कर्षकाः' कृषीवलाः, तथैव 'निम्नेषु च नीचभागेषु च "आसमाए। ति 'आशंसया' 'यदि अत्यन्तप्रवर्षणं भावि तदा स्थलेषु फलावाप्तिः, अथान्यथा तदा निम्नेषु' इत्येवमभिलाषात्मिकया 'एतया' उक्तरूपकर्षकाशंसातुल्यया श्रद्धया "दलाहि" त्ति दवं मह्यम् । किमुक्तं भवति ?यद्यपि भवन्तो निम्नतुल्यमात्मानं मन्यन्ते मां च स्थलतुल्यं तथापि मह्यमपि दातुमुचितम् । अथ स्यात्-एवं दत्तेऽपि न
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy