________________
द्वादशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघु
हरिकेशीयाख्यमध्ययनम्। हरिकेशमुनेः
सौत्री वक्तव्यता।
वृत्तिः ।
॥१७६॥
जक्खो तहिं तिंदुयरुक्खवासी, अणुकंपओ तस्स महामुणिस्स । - पच्छायइत्ता णियगं सरीरं, इमाई वयणाई उदाहरित्था ॥८॥ व्याख्या-यक्षः तस्मिन्' अवसरे इति गम्यते, तिन्दुकवृक्षवासी, तथा च सम्प्रदायः-तस्स तिंदुगवणस्स मज्झे महतो तिंदुगरुक्खो तहिं सो वसइ, तस्सेव हेट्ठा चेइयं जत्थ सो साहू ठिओ त्ति । 'अनुकम्पकः' अनुकूलक्रियाप्रवृत्तिः, कस्य ? इत्याह-'तस्य' हरिकेशबलस्य महामुनेः, प्रच्छाद्य 'निजकम्' आत्मीयं शरीरम् , कोऽभिप्रायः ?तपस्विशरीरे एव प्रविश्य स्वयमनुपलक्ष्यः सन् 'इमानि' वक्ष्यमाणानि वचनानि "उदाहरित्था" उदाहृतवानिति सूत्रार्थः ॥ ८॥ कानि पुनस्तानि ? इत्याह
समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ। परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इहमागओ मि ॥९॥ वियरिजई खजइ भोजई य, अन्नं पभूतं भवयाणमेयं ।
जाणाहि मे जायणजीविणो त्ति, सेसावसेसं लहऊ तवस्सी ॥१०॥ व्याख्या-श्रमणः' मुनिरहम् , सम्यग् यतः 'संयतः' असद्व्यापारेभ्य उपरतः, अत एव ब्रह्मचारी, तथा 'विरतः' निवृत्तः धन-पचन-परिग्रहात्, समाहारादेकवचनम्, तत्र धनं-चतुष्पदादि, पचनम्-आहारपाकः, परिग्रहः-द्रव्यादिमूच्छों, अत एव परस्मै प्रवृत्तं परप्रवृत्तं-परार्थ निष्पन्नं तस्य, 'तुः' अवधारणे, ततः परप्रवृत्तस्यैव न तु मदर्थ साधितस्य, भिक्षाकाले 'अन्नस्य अशनस्य "अट्ठ" त्ति सूत्रत्वादर्थाय इह यज्ञपाटे आगतोऽस्मि । एवमुक्के च ते कदाचिदभिदध्यु:-नेह किश्चित् कस्मैचिद् दीयते, अत आह–वितीर्यते' दीयते दीनादिभ्यः 'खाद्यते' खण्डखाद्यादि 'भुज्यते च'
॥१७६॥