________________
'इदं' वक्ष्यमाणं वचनं "अब्बवि" ति 'अब्रुवन्' उक्तवन्तः ॥ किं तत् ? इत्याह – “कयरे" त्ति कतरः, एकारस्तु प्राकृतत्वात् आगच्छति 'दीप्तरूपः ' बीभत्सरूपः कालः वर्णतः, 'विकरालः' दन्तुरत्वादिना भयानकः, “फोक्क" त्ति देशीयपदम्, ततश्च फोक्का - अप्रे स्थूला उन्नता च नासाऽस्येति फोक्कनासः, 'अवमचेलः' निकृष्टचीवरः, पांशुना - रजसा पिशाचवद् भूतः - जातः पांशुपिशाचभूतः, पिशाचो हि लौकिकानां दीर्घश्मश्रुनखरोमा पांशुगुण्डितश्च इष्टः, ततः सोऽपि निष्प्रतिकर्मतया रजोदिग्धदेहतया चैवमुच्यते । सङ्करः - कचवरः, स च प्रस्तावादुत्कुरुडिकारूपस्तत्र दृष्यं वस्त्रं सङ्करदूष्यं, तत्र हि यदत्यन्तनिकृष्टं निरुपयोगि तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायमन्यदपि तथोक्तम्, 'परिवृत्य' निक्षिप्य 'कण्ठे' | गले, स हि अनिक्षिप्तोपकरणतया स्वमुपकरणमादायैव भ्राम्यतीत्येवमुक्त इति सूत्रद्वयार्थः ॥ ५-६ ॥ इत्थं दूरादागच्छन् उक्तः । आसनं चैनं किमूचुः ? इत्याह
कतरे तुमं इय अहंसणिज्जे ?, काए व आसाइहमागओ सि ।
ओमचेगा ! पंसुपिसायभूया !, गच्छ क्खलाहि किमिह द्विओ सि ? ॥ ७ ॥
व्याख्या -कतरस्त्वम् ?, पाठान्तरतश्च को रे त्वम् ?, अधिक्षेपे रेशब्दः, 'इति' इति एवं 'अदर्शनीयः' अद्रष्टव्यः 'कया वा' किं रूपया वा "आसाइहमागओऽसि" त्ति प्राकृतलक्षणाद् एकारलोपो मकारश्चाऽऽगमिकः, ततः 'आशया' वाञ्छया 'इह' यज्ञपाटके 'आगतः' प्राप्तः 'असि' भवसि ?, अवमचेलक ! पांशुपिशाचभूत !, पुनरनयोरुपादानमत्यन्ताधिक्षेपदानार्थम्, 'गच्छ' व्रज "खलाहि" ति देशीयपदम् 'अपसर' इत्यस्यार्थे वर्त्तते, ततोऽयमर्थः - अस्मद्दष्टिपथादपसर, किमिह स्थितोऽसि त्वम् ? नैवेह त्वया स्थातव्यमिति सूत्रार्थः ॥ ७ ॥ एवमधिक्षिप्ते तस्मिन् मुनौ प्रशमपरतया किञ्चिदजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यदचेष्टत तदाह
हरिकेशमुनेः सौत्री वक्तव्यता ।