________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १७२॥
व्याख्या – “समुद्दगंभीरसम" त्ति आर्षत्वाद् गाम्भीर्येण - अलब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, “दुरासय" त्ति दुःखेनाऽऽश्रीयन्ते अभिभवबुद्ध्या केनापीति दुराश्रयाः, अत एव "अचक्किय" त्ति 'अचकिताः' अत्रसिताः 'केनचित् परप्रवादिना, तथा दुःखेन प्रधृष्यन्ते - परिभूयन्ते केनापीति दुःप्रर्षकाः । के एवंविधाः ? इत्याह — “सुयस्स पुन्ना विउलस्स” त्ति सुव्यत्ययात् 'श्रुतेन' आगमेन 'पूर्णा' परिपूर्णाः 'विपुलेन' अङ्गाऽनङ्गादिभेदतो विस्तीर्णेन, 'त्रायिणः ' त्रातारः । तानेव फलतो विशेषयितुमाह – 'क्षपयित्वा' विनाश्य 'कर्म' | ज्ञानावरणादि गतिं 'उत्तमां' मुक्तिरूपां 'गताः' प्राप्ताः, उपलक्षणत्वाद् गच्छन्ति गमिष्यन्ति च । इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो व्याप्तिप्रदर्शनार्थमिति सूत्रार्थः ॥ ३१ ॥ इत्थं बहुश्रुतस्य गुणवर्णनादिकां पूजामभिधाय शिष्योपदेशमाह - तम्हा सुयमहिद्वेज्जा, उत्तमट्ठगवेसए । जेणऽप्पाणं परं चैव, सिद्धिं संपाउ णिज्जासि ॥ ३२॥ त्ति बेमि ॥
व्याख्या - यस्मादमी मुक्तिगमनावसाना बहुश्रुतगुणाः तस्मात् 'श्रुतम्' आगमम् 'अधितिष्ठेत्' अध्ययनश्रवणचिन्तनादिना श्रयेत् उत्तमः - प्रधानोऽर्थः स च मोक्ष एव तं 'गवेपयति' अन्वेपयति उत्तमार्थगवेषकः, येन किं स्यात् (? |इत्याह-येन आत्मानं परं चैव 'सिद्धि' मुक्तिं सम्प्रापयेदिति सूत्रार्थः ॥ ३२ ॥ 'इति' परिसमाप्तौ 'ब्रवीमी' इति पूर्ववत् ॥
anas
SARANAS
॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधयां बहुश्रुतपूजाख्यमेकादशमध्ययनं समाप्तम् ॥
HERGERSENsensesERSENENFERSENSEASES
एकादशं
बहुश्रुत
पूजाख्य
मध्ययनम् ।
बहुश्रुतमाहात्म्यं शिष्यो -
पदेशश्च ।
॥ १७२ ॥