SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ बहुश्रुतस्तवः। BXOXOXOXOXOXOXOXXXOX व्याख्या-यथा सा नदीनां प्रवरा 'सलिला' नदी सागरं-समुद्रं गच्छतीति सागरनमा 'शीता' शीतानानी. नीलवान् मेरोरुत्तरस्यां दिशि वर्षधरपर्वतस्ततः प्रवहति नीलवत्प्रवहा । एवं भवति बहुश्रुतः । सोऽपि हि सरित्समानानामन्यसाधूनां प्रधानो विमलजलकल्पश्रुतज्ञानान्वितश्च; तथा सागरतुल्यां मुक्तिमेवासौ गच्छति, तदुचितानुष्ठान एवाऽस्य प्रवृत्तत्वात् ; नीलवत्तुल्याच उच्छ्रितोच्छ्रितमहाकुलादेवाऽस्य प्रसूतिरिति सूत्रार्थः ॥ २८ ॥ किश्चजहा से णगाण पवरे, सुमहं मंदरे गिरी। णाणोसहिपज्जलिए, एवं हवइ बहुस्सुए ॥ २९॥ व्याख्या-यथा सः 'नगानां' पर्वतानां प्रवरः 'सुमहान्' अतिशयगुरुः मन्दरो गिरिः नानौषधिभिः-अनेकविशिष्टमाहात्म्याभिर्वनस्पतिविशेषरूपाभिः प्रकर्षेण ज्वलितः-दीप्तो नानौषधिप्रज्वलितः। एवं भवति बहुश्रुतः। श्रुतमाहात्म्येन ह्यसौ अत्यन्तस्थिर इति शेषः, गिरिकल्पापरसाध्वपेक्षया प्रवर एव भवति, तथान्धकारेऽपि प्रकाशनशक्त्यन्विताऽऽमोषध्यादियुक्त एवेति सूत्रार्थः ॥ २९ ॥ किं बहुनाजहा से सयंभूरमणे, उदही अक्खओदए । नाणारयणपडिपुन्ने, एवं हवइ बहुस्सुए॥३०॥ __व्याख्या-यथा सः 'स्वयम्भूरमणः' स्वयम्भूरमणाभिधानः 'उदधिः' समुद्रः अक्षयं-अविनाशि उदकं-जलं यस्मिन् स तथा, नानारत्नैः-नानाप्रकारैर्मरकतादिभिः परिपूर्णो नानारत्नपरिपूर्णः । एवं भवति बहुश्रुतः, अयमपि ह्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नवांश्च भवतीति सूत्रार्थः ॥३०॥ साम्प्रतमुक्तगुणानुवादतः फलोपदर्शनतश्च तस्यैव माहात्म्यमाह समुद्दगंभीरसमा दुरासया, अचक्किया केणइ दुप्पहंसिया। सुयस्स पुन्ना विउलस्स ताइणो, खवित्त कम्मं गइमुत्तमं गया ॥ ३१॥ १ संखाऽऽसे सूर कुर्जर, वसंह हरी वासुदेव चक्किंदा । रबि ससि कोट्टये जंबू, सीयानई मेरु चरमुदही ॥ १॥ इयं सङ्ग्रहगाथा पद्ममन्दिरगणिभिः कृता । 6XOXOXOXOXOXOXOXOXOXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy