SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ सविपक्षबहुश्रुतस्वरूपम् । सूत्रे चतुर्थ्यर्थे सप्तमी । तथा 'सुप्रियस्यापि' अतिवल्लभस्यापि मित्रस्य 'रहसि' एकान्ते 'भाषतें' वक्ति पापमेव पापकम् , किमुक्तं भवति ?-अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रतिसेवकोऽयमित्यादिकमनाचारमेवाऽऽविष्करोति । तथा प्रतिज्ञया-इत्थ मेवेदमित्येकान्ताभ्युपगमरूपया वदनशीलः प्रतिज्ञावादी। तथा "दुहिल" त्ति द्रोहणशीलः द्रोग्धा न मित्रमप्यनभिद्रुह्यं आस्ते। तथा 'स्तब्धः' तपस्यहम् इत्याद्यहङ्कतिमान् । तथा 'लुब्धः' अन्नादिष्वमिकाढावान् । तथा 'अनिग्रहः' प्राग्वत् । तथा असंविभजनशीलः असंविभागी, नाऽऽहारादिकमवाप्यातिगायतोऽन्यस्मै स्वल्पमपि प्रयच्छति, किन्त्वात्मानमेव पोषयति । तथा "अचियत्ते" त्ति 'अप्रीतिकरः' दृश्यमानः सम्भाष्यमाणो वा सर्वस्याप्रीतिमेवोत्पादयति, एवंविधदोषान्वितोऽविनीत इत्युच्यत इति निगमनम् ॥ इत्थमविनीतस्थानान्यभिधाय विनीतस्थानान्याह-अथ पञ्चदशभिः स्थानः सुष्टु-शोभनो विनीतः-विनयान्वितः सुविनीत इत्युच्यते । तान्येवाह-"नीयावित्ति" त्ति नीचम्-अनुद्धतं यथा भवत्येवं वर्त्तत इत्येवंशीलः नीचवर्ती, गुरुषु न्यग्वृत्तिमान्, यथाऽऽह-"नीयं सेज गई ठाणं, नीयं च आसणाणि य । नीयं च पाए वंदिजा, नीयं कुज्जा य अंजलिं ॥१॥" तथा च न चपलः अचलः गति-स्थान-भाषाभावभेदतश्चतुर्की । तत्र गतिचपलः-द्रुतचारी । स्थानचपल:-यस्तिष्ठन्नपि चलनेवास्ते हस्तादिभिः । भाषाचपल:सद-ऽसभ्या-ऽसमीक्ष्या-ऽदेशकालप्रलापिभेदाच्चतुर्दा, तत्र असत्-अविद्यमानम् असभ्यम्-खरपरुषादि असमीक्ष्यअनालोच्य प्रलपन्तीत्येवंशीला असदसभ्याऽसभीक्ष्यप्रलापिनत्रयः, अदेशकालप्रलापी चतुर्थः, अतीते कार्ये यो वक्ति-यदिदं १ "नीचां शय्यां गतिं स्थानं, नीचानि चासनानि च । नीचं च पादौ वन्देत, नीचं च कुर्याच्चाञ्जलिम् ॥१॥" २ प्रलापिशब्दस्य चतुर्णामभिसम्बन्धादसालापी असभ्यप्रलापी २ असमीक्ष्यप्रलापी ३ अदेशकालप्रलापीति चतुर्दा भाषाचपल उच्यते।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy