________________
अह पंचहि ठाणेहिं, जेहिं सिक्खा न लग्भइ । थंभा कोहा पमाएणं, रोगेणं आलसेण य ॥ ३ ॥ अह अट्ठहिं ठाणेहिं, सिक्खासीले त्ति वुच्चइ । अहस्सिरे सया दंते, ण य मम्ममुदाहरे ॥ ४ ॥ णासीले ण विसीले, ण सिया अइलोलुए। अक्कोहणे सच्चरए, सिक्खासीले त्ति वुच्चइ ॥ ५ ॥ व्याख्या – 'अथ' इत्युपन्यासार्थे, पञ्चभिः 'स्थानैः प्रकारैर्यैर्वक्ष्यमाणा 'शिक्षा' ग्रहणाऽऽसेवनात्मिका न लभ्यते | तैरीदृशमबहुश्रुतत्वमवाप्यत इति शेषः । कैः पुनः सा न लभ्यते ? इत्याह - ' स्तम्भात्' मानात् 'क्रोधात्' कोपात् 'प्रमादेन ' 'मद्यविषयादिना 'रोगेण' गलत्कुष्ठादिना, 'आलस्येन' अनुत्साहात्मना शिक्षा न लभ्यत इति प्रक्रमः । 'चः' समुच्चये । इत्थमबहुश्रुतत्वहेतूनभिधाय बहुश्रुतत्वहेतूनाह — अथ अष्टाभिः स्थानैः शिक्षां शीलयति - अभ्यस्यतीति शिक्षाशील इत्युच्यते तीर्थकरादिभिरिति गम्यते । तान्येवाह - "अह स्सिरे" त्ति अहसनशीलो न सहेतुकमहेतुकं वा हसन्नेवास्ते, 'सदा' सर्वकालं 'दान्तः' इन्द्रिय- नोइन्द्रियदमवान्, न च 'मर्म' परापभ्राजनाकारि 'उदाहरेत्' उद्घट्टयेत्, 'न' नैव ' अशीलः' सर्वथा शीलविकलः, न 'विशीलः' विरूपशीलोऽतीचारकलुषितत्रत इत्यर्थः, 'न स्यात्' न भवेत् 'अतिलोलुपः' अतीवरसलम्पटः, | 'अक्रोधनः' अपराधिन्यपि क्षमावान्, 'सत्यरतः अवितथभाषणसक्त इति । निगमयितुमाह — शिक्षाशीलः 'इति' अनन्तरोक्तगुणभाग् उच्यते, स च बहुश्रुत एव भवतीति भावः । विशेषाभिधायित्वाच्च क्वचित् केषाञ्चिदन्तर्भावसम्भवेऽपि पृथगुपादानमिति सूत्रत्रयार्थः ॥ ३-४-५ ॥ किच – अबहुश्रुतत्वे बहुश्रुतत्वे वाऽविनयो विनयश्च मूलकारणं । न च अविनीतविनीतयोः स्वरूपमविज्ञाय तौ ज्ञातुं शक्याविति यैः स्थानैरविनीतो यैश्च विनीत उच्यते तान्यभिधातुमाह
अह चोद्दसहिं ठाणेहिं, वट्टमाणो उ संजए । अविणीए बुच्चई सो उ, णिवाणं च ण गच्छइ ||६|| अभिक्खणं कोही भवइ, पबंधं च पकुवइ । मित्तिज्ज़माणो वमह, सुयं लडूण मज्जइ ॥७॥
1
सविपक्ष
बहुश्रुत
स्वरूपम् ।