________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृतिः ।
॥ १६६ ॥
अथ बहुश्रुतपूजाख्यमेकादशमध्ययनम् ।
उक्तं दशममध्ययनम् । साम्प्रतं बहुश्रुतपूजाख्यमेकादशमारभ्यते, अस्य चायमभिसम्बन्धः – ' इहानन्तराध्ययनेऽप्रमादार्थमनुशासनमुक्तम्, तश्च विवेकिनैव भावयितुं शक्यम्, विवेकश्च बहुश्रुतपूजात उपजायते, इति बहुश्रुतपूजोच्यते' इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य आदिसूत्रम् -
संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुधिं सुणेह मे ॥ १ ॥ व्याख्या - संयोगाद् विप्रमुक्तस्य अनगास्य भिक्षोः 'आचारम्' उचितत्रियां बहुश्रुतपूजात्मिकां प्रादुष्करिष्याम्यानुपूर्व्या शृणुत मे कथयत इति शेष इति सूत्रार्थः ॥ १ ॥ इह बहुश्रुतपूजा प्रक्रान्ता, सा च बहुश्रुतस्वरूपरिज्ञान एव कर्त्तुं शक्या, बहुश्रुतश्च अबहुश्रुतविपर्ययेण भवति अतोऽबहुश्रुतस्वरूपं तावदाह—
जे यावि होइ निचिज्जे, थद्धे लुद्धे अणिग्गहे । अभिक्खणं उल्लवती, अविणीए अबहुस्सुए ॥ २॥
व्याख्या – 'यः' कश्चित् चापिशब्दौ भिन्नक्रमावुत्तरत्र योक्ष्येते, 'भवति' जायते, निर्गतो विद्यायाः - सम्यक्शास्त्रावगमरूपायाः निर्विद्यः, अपिशब्दसम्बन्धात् सविद्योऽपि यः 'स्तब्धः' अहङ्कारी 'लुब्ध:' रसादिगृद्धिमान्, न विद्यते निग्रहः - इन्द्रियनियमनात्मकोऽस्येति अनिग्रहः, 'अभीक्ष्णं' पुनः पुनः उत्-प्राबल्येनासम्बद्धभाषितादिरूपेण लपति - वक्ति उल्लपति 'अविनीतश्च' विनयरहितः, "अबहुस्सुए" त्ति यत्तदोर्नित्याभिसम्बन्धात् सोऽअबहुश्रुत उच्यते इति शेषः । सविद्यस्याप्यबहुश्रुतत्वं बहुश्रुतफलाभावादिति भावनीयम्, एतद्विपरीतश्च अर्थात् बहुश्रुत इति सूत्रार्थः ॥ २ ॥ कुतः पुनरीदृशमबहुश्रुतत्वं बहुश्रुतत्वं च लभ्यते ? इत्याह
3-08
एकादशं
बहुश्रुत
पूजाख्य
मध्ययनम् ।
सविपक्ष
बहुश्रुत
स्वरूपम् ।
॥ १६६ ॥