________________
व्याख्या-'बुद्धस्य' केवलावलोकितसमस्तवस्तुतत्त्वस्य प्रक्रमात् श्रीमन्महावीरस्य 'निशम्य' आकर्ण्य 'भाषितम्' उक्तं, सुष्टु-शोभनेन उपमादर्शनादिना प्रकारेण कथितं-प्रबन्धन प्रतिपादितं सुकथितम् , अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, राग द्वेषं छित्त्वा सिद्धिगतिं गतो गौतमो भगवान् प्रथमगणधर इति सूत्रार्थः ॥३७॥ 'इतिः' परिसमाप्ती, ब्रवीमीति पूर्ववत् ॥
॥इति श्रीनेमिचन्द्रसूरिविरचितायां सुखबोधायां उत्तराध्ययनसुत्र
लघुटीकायां द्रुमपत्रकाख्यं दशममध्ययनं समाप्तम् ॥