________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
दशमं द्रुमपत्राख्यमध्ययनम्। अप्रमादार्थ वीरप्रभोरनु|शासनम् ।
॥१६५॥
अकलेवरसेणिमुस्सिया, सिद्धिं गोयम ! लोय गच्छसि।
खेमं च सिवं अणुत्तरं, समयं गोयम! मा पमायए ॥ ३५॥ व्याख्या-अविद्यमानं कडेवरं-शरीरमेषामकडेवराः-सिद्धास्तेषां श्रेणिरकडेवरश्रेणिः, यया उत्तरोत्तरशुभपरिणामप्राप्तिरूपया ते सिद्धिपदमारोहन्ति क्षपकश्रेणिरित्यर्थः, तां 'उच्छ्रित्य' उत्तरोत्तरसंयमस्थानावात्योच्छ्रितामिव कृत्वा 'सिद्धिं' सिद्धिनामानं लोकं गौतम ! 'गच्छसि' सुब्ब्यत्ययाद् गमिष्यसि । 'क्षेमं परचक्राद्युपद्रवरहितं, 'चः' समुच्चये मिन्नक्रमश्च, 'शिवमनुत्तरं च तत्र शिवम्-अशेषदुरितोपशमेन, अनुत्तरं-सर्वोत्कृष्टम् , ततः समयमपि गौतम!मा प्रमादीरिति सूत्रार्थः॥३५॥ सम्प्रति निगमयितुमुपदेशसर्वस्वमाहबुद्धे परिनिडे चरे, गाम गए नगरे व संजए। संतिमग्गं चव्हते,समयं गोयम! मा पमायए॥३६॥
व्याख्या-'बुद्धः' अवगतहेयादिविभागः 'परिनिर्वृतः कषायाम्युपशमतः शीतीभूतः 'चरेः आसेवस्ख, संयममिति शेषः । “गाम" त्ति विभक्तिलोपाद् ग्रामे 'गतः स्थितो नगरे वा. उपलक्षणवाद अरण्यादिषु वा, किमुक्तं भवति ।सर्वस्मिन् अनभिष्वङ्गवान्, 'संयतः सम्यक् पापस्थानेभ्य उपरतः शान्तिमार्ग' मुक्तिमार्ग, चशब्दो मिन्नक्रमः, ततः 'बृहयेश्च भव्यजनप्ररूपणया वृद्धिं नयेः, ततः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ ३६ ॥ इत्थं भगवदुक्त| मिदमाकर्ण्य गौतमो यत् कृतवांस्तदाह
बुद्धस्स निसम्म भासियं, सुकहितमट्ठपदोवसोहियं ।.. रागं दोसं च छिंदिया, सिद्धिगई गए गोयमे ॥ ३७॥ त्ति बेमि ॥.
॥१६५॥