SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ अप्रमादार्थ वीरप्रभोरनुशासनम् । al व्याख्या-'अबल:' अविद्यमानशरीरसामर्थ्य: 'यथेति औपम्ये, भारं वहतीति भारवाहकः, 'मा' निषेधे "मग्गे" ति| मार्ग "विसमे" ति 'विषम' मन्दसत्त्वैर्दुस्तरं "अवगाहिय" त्ति 'अवगाह्य' प्रविश्य त्यक्ताङ्गीकृतभारः सन्निति गम्यते, 'पश्चात्' तत्कालानन्तरं 'पश्चादनुतापकः' पश्चात्तापकृत् , भूरिति शेषः । इदमुक्तं भवति-यथा कश्चिद् देशान्तरगतो बहुमिरुपायैः स्वर्णादिकमुपाय॑ स्वगृहाभिमुखमागच्छन्नतिमीरुतया अन्यवस्त्वन्तर्हितं स्वर्णादिकं स्वशिरस्यारोप्य कतिचिद् दिनानि सम्यगुद्वहति, अनन्तरं च क्वचिदुपलादिसडले पथि 'अहो! अहमनेन भारेणाऽऽक्रान्तः' इति तमुत्सृज्य स्वगृहमागतोऽत्यन्तनिर्धनतयाऽनुतप्यते-किं मया मन्दभाग्येन तत् परित्यक्तमिति ? । एवं त्वमपि प्रमादपरतया त्यक्तसंयमभारः सन्नेवंविधो मा भूः, किंतु समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ ३३ ॥ बह्निदमद्यापि निस्तरणीयमल्पं च | निस्तीर्णमित्यभिसन्धिनोत्साहभङ्गोऽपि स्यादिति तदपनोदायाह तिन्नो हु सि अन्नवं महं, किं पुण चिट्ठसि तीरमागओ?। अभितुर पारं गमित्तए, समयं गोयम ! मा पमायए ॥ ३४॥ व्याख्या-"तिन्नो ह सि" त्ति तीर्ण एवाऽसि, अर्णवमिवाऽणे "महं" ति 'महान्तं' गुरुम, 'किमि ति प्रश्रेपनरिति वाक्योपन्यासे. ततः किं पुनस्तिष्ठसि 'तीरं' पारं 'आगतः' प्राप्तः । किमुक्तं भवति?-संसारःभवः कर्म वा भावतोऽर्णव उच्यते, स च द्विविधोऽपि त्वयोत्तीर्णप्राय एवेति केन हेतुना तीरप्राप्तोऽप्यौदासीन्यं भजसे ? नैवेदं तवोचितमित्याशयः । | किन्तु "अभितुर"त्ति अभि-आभिमुख्येन त्वरस्व-शीघ्रो भव 'पारं' परतीरं भावतो मुक्तिपदं "गमित्तइत्ति गन्तुम् , अतश्च समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥३४॥ अथापि स्यात्-मम पारप्राप्तियोग्यतैव न समस्ति अत आह
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy