SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठिततया निश्चले, अन्यथा सत्त्वविराधनासंभवात् । ईदृशेऽप्यासनेऽल्पोत्थायी-प्रयोजनेऽपि न पुनः पुनरुत्थानशीलः, | निरुत्थायी-निमित्तं विना नोत्थानशीलः, उभयत्राऽन्यथाऽनवस्थितत्वात् । एवंविधश्च किम् ? इत्याह-निषीदेत्-आसीत, | 'अप्पकुकुई' अल्पस्पन्दनः-करादिभिरल्पमेव चलन्निति सूत्रार्थः ॥ ३० ॥ संप्रत्येषणाविषयं विनयमाह कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवजेत्ता, काले कालं समायरे ॥३१॥ | व्याख्या-काले-प्रस्तावे, सप्तम्यर्थे तृतीया, निष्क्रामेत्-गच्छेद् भिक्षुः, अकाले निर्गमे आत्मक्लामनादिदोषसंभवात् ।। तथा काले च प्रतिक्रामेत्-प्रतिनिवर्तेत, भिक्षाटनादिति शेषः । इदमुक्तं भवति-अलाभे अल्पं मया लब्धं न लब्धमिति |वा लाभार्थी नाटन्नेव तिष्ठेत्, आह च-अलाभो त्ति न सोइज्जा तवो त्ति अहियासए' । किमित्येवम् ? अत आह| अकालं च-तत्तक्रियाकाण्डाऽसमयं चेति यस्माद् विवर्य काले-प्रस्तावे कालं-तत्तत्कालोचितं प्रत्युपेक्षणाद्यनुष्ठानं समाचरेत् कुर्यात् , यतः-कालम्मि कीरमाणं, किसिकम्मं बहुफलं जहा होइ । इय सब च्चिय किरिया, नियनियकालम्मि विनेया ॥ १॥ इति सूत्रार्थः ॥ ३१ ॥ निर्गतश्च यत् कुर्यात् तदाहपरिवाडीए न चिट्टेजा, भिक्खू दत्तेसणं चरे। पडिरूवेण एसित्ता, मियं कालेण भक्खए ॥३२॥ व्याख्या-परिपाट्यां-पतयां भोकुमुपविष्टपुरुषसंबन्धिन्यां न तिष्ठेद् भिक्षार्थ नास्ते, अप्रीत्यदृष्टकल्याणतादिदोष|संभवात । किञ्च भिक्षुदत्तं-दानं तस्मिन् गृहिणा दीयमाने एषणा-तगतदोषान्वेषणात्मिका दत्तषणा तां चरेत्-आसेवेतेति, अनेन ग्रहणैषणोक्ता । किं विधाय दत्तैषणां चरेत् ? प्रतिरूपेण-प्रतिबिम्बं चिरन्तनमुनीनां यद् रूपं तेन पतगृहादिधारणा . अलाभ इति न शोचेत् तप इत्यध्यासीत। २ काले क्रियमाणं कृषिकर्म बहुफळं यथा भवति । इति सर्वैच क्रिया, निजनिजकाले विज्ञेया ॥२॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy