________________
श्रीउत्तरा
दशमं द्रुमपत्राख्यमध्ययनम्।
ध्ययनसूत्रे श्रीनेमिचन्द्रीयासुखबोधाख्या लघुवृत्तिः ।
अप्रमादार्थ वीरप्रभोरनुशासनम् ।
॥१६३॥
XOXOXOXOXOXOXOXOXOXXX
अरई गंडं विसूईया, आयंका विविहा फुसंति ते।
विहडइ विद्धंसइ ते सरीरयं, समयं गोयम ! मा पमायए ॥२७॥ व्याख्या-'अरतिः' वातादिजनितश्चित्तोद्वेगः 'गंडं' गडुः, 'विसूचिका' अजीर्णविशेषः 'आतङ्काः' सद्यो घातिनो रोगविशेषाः 'विविधाः' अनेकप्रकाराः स्पृशन्ति 'ते' तव शरीरकमिति गम्यते । यदुक्तम्-"सासे खासे जरे डाहे, कुच्छिसूले भगंदरे । अरिसा अजीरए दिट्ठी-मुहसूले अरोयए ॥ १॥ अच्छिवेयण कंडू य, कन्नावाहा जलोयरे । कोढे | एमाइणो रोगा, पीलयंति सरीरिणं ॥ २॥" ततश्च "विहडइ" त्ति 'विपतति' विशेषेणाधः पतति-बलोपचयादपैति, 'विध्वस्यते' जीवविमुक्तमधः पतति ते शरीरकम् , अतो यावज्जरा रोगाश्च शरीरं न जर्जरयन्ति तावत् समयमपीति पूर्ववत् । अन्येषामपि अयमुपदेशः। उक्तञ्च-"यावत् स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयोनायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् , सन्दीप्ते भवने हि कूपखननं प्रत्युद्यमः कीदृशः ॥ १॥" केशपाण्डुरत्वादि च यद्यपि गौतमे न सम्भवति तथापि तन्निश्रया शेषशिष्यप्रतिबोधनार्थत्वाददुष्टमिति सूत्रार्थः ॥२७॥ यथा अप्रमादो विधेयस्तथा चाऽऽह
वोच्छिद सिणेहमप्पणो, कुमुदं सारइयं व पाणियं ।
से सबसिणेहवजिए, समयं गोयम ! मा पमायए ॥२८॥ व्याख्या-'व्युच्छिन्द्धि' अपनय 'स्नेहम' अभिष्वङ्ग, कस्य सम्बन्धिनम् ? आत्मनः, कुमुदमिव "सारइयं" ति| सूत्रत्वात् शरदि भवं शारदम् 'वा' उपमार्थो भिन्नक्रमश्च प्राग् योजितः, 'पानीयं' जलम् , यथा तत् प्रथमं जलमग्नमपि जलमपहाय वर्त्तते तथा त्वमपि चिरसंसृष्टत्वादिभिर्मद्विषयस्नेहवशगोऽपि तमपनय, अपनीय च "से" इति 'अथ'
EFOXOXOXXX
॥१६३॥