SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ अनन्तरं सर्वस्नेहवर्जितः सन् समयमपि गौतम ! मा प्रमादीः । इह जलमपहायैतावति सिद्धे यत् शारदपदोपादानं | तत् शारदजलस्येव स्नेहस्याऽपि अतिमनोरमत्वख्यापनार्थमिति सूत्रार्थः ॥ २८ ॥ किचचेचा णं धणं च भारियं, पवइओ हि सि अणगारियं । मावतं पुणो वि आइए, समयं गोयम ! मा पमायए ॥ २९ ॥ व्याख्या – ' त्यक्त्वा ' परिहृत्य "जं" वाक्यालङ्कारे, 'धनं' चतुष्पदादि, चशब्दो भिन्नक्रमः, ततः भार्या च त्यक्त्वा 'प्रब्रजितः' प्रतिपन्नः, 'हि:' यस्मात् "सी" ति सूत्रत्वेन अकारलोपात् 'असि' भवसि 'अनगारितां' यतिताम्, अतो मा 'वान्तम्' उद्गीर्णं पुनरपि “आइए" त्ति आपिब, किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ २९ ॥ कथन वान्ताऽऽपानं न भवति ? इत्याह अवउज्झिय मित्तबंधवं, विउलं चेव धणोहसंचयं । मातंबितियं गवेस, समयं गोयम ! मा पमायए ॥ ३० ॥ व्याख्या – 'अपोह्य' त्यक्त्वा मित्राणि च बान्धवाश्च मित्रबान्धवम्, विपुलं चैव 'धनौघसंचयं' कनकादिद्रव्यसमूह| सवयम् मा 'तदिति मित्रादिकं 'द्वितीयं' पुनर्प्रहणार्थमिति गम्यते, 'गवेषय' अन्वेषय, तदभिष्वङ्गवान् मा भूः त्यक्तं हि तद् वान्तोपमम्, तदभिष्वङ्गश्च वान्ताऽऽपानप्राय इत्यभिप्रायः । किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३० ॥ इत्थं प्रतिबन्धनिराकरणार्थमभिधाय दर्शनविशुद्ध्यर्थमाह जिणे अज दिस्सह, बहुमए दिस्सर मग्गदेसिए । संपइ णेयाउए पहे, समयं गोयम ! मा पमायए ॥ ३१ ॥ अप्रमादार्थ वीरप्रभोरनुशासनम् ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy