________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १६० ॥
मिति गम्यते, तिष्ठति लम्बमानकः । एवं मनुजानां जीवितम्, अतः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥२॥ अमुमेवार्थमुपसंहरन्नुपदेशमाह -
इइ इत्तरियम्मि आउए, जीवियए 'बहुपच्चवायए ।
विहुणाहि रयं पुरेकडं, समयं गोयम ! मा पमायए ॥ ३ ॥
3
व्याख्या- 'इति' उक्तन्यायेन ' इत्वरे' स्वल्पकालभाविनि एति - उपक्रमहेतुभिः अनपवर्त्यतया यथास्थित्यैवानुभवनीयतां गच्छतीति आयुः, तचैवं निरुपक्रममेव तस्मिन् तथाऽनुकम्पितं जीवितकं, चशब्दस्य गम्यमानत्वात् तस्मिंश्च अर्थात् सोपक्रमायुषि बहवः - प्रभूताः प्रत्यपायाः - उपघातहेतवोऽध्यवसाननिमित्तादयो यस्मिंस्तत्तथा, अनेन चानुकम्पिताहेतुराविष्कृतः । एवं चोक्तरूपद्रुमपत्रोदाहरणतः कुशाग्रजलबिन्दूदाहरणतश्च मनुजायुर्निरुपक्रमं सोपक्रमं च तुच्छमिति, त्वमतोऽस्यानित्यतां मत्वा 'विधुनीहि ' जीवात् पृथक् कुरु 'रजः' कर्म " पुरेकडं" ति पुरा - पूर्वं तत्कालापेक्षया कृतं - विहितं । तद्विधुवनोपायमाह - समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३ ॥ स्यात् - पुनर्मनुष्यभवावाप्तौ उद्यंस्याम
इत्याह
दुलहे खलु माणुसे भवे, चिरकालेण वि सबपाणिणं ।
गाढा य विवाग कम्मुणो, समयं गोयम ! मा पमायए ॥ ४ ॥
व्याख्या – 'दुर्लभः' दुरवापः 'खलुः' विशेषणे, अकृतसुकृतानामिति विशेषणं द्योतयति, 'मानुषः' मनुष्यसम्बन्धी 'भवः' जन्म 'चिरकालेनापि प्रभूतकालेनापि आस्तामल्पकालेन इत्यपिशब्दार्थः, 'सर्वप्राणिनां सर्वेषामपि जीवानाम्, किमिति दुर्लभः मनुष्यभवः ? इत्याह- 'गाढा:' विनाशयितुमशक्यतया दृढाः, 'च' इति यस्मात्, “विवाग कम्मुणो" त्ति
दशमं द्रुम
पत्राख्य
मध्ययनम् ।
अप्रमादार्थं
वीरप्रभोरनु
शासनम् ।
॥ १६० ॥