SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ नमिराजर्षेः सौत्रीवक्तव्यता। चपलकुण्डलः स चासौ किरीटी च-मुकुटवान् ललितचपलकुण्डलकिरीटीति सूत्रार्थः ॥६०॥ स शक्रेणैवममिष्ट्रयमानः किमुत्कर्ष कृतवान् उत न ? इत्याह नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ। चइऊण गेहं वइदेही, सामन्ने पजुवडिओ॥११॥ व्याख्या-नमिः 'नमयति' स्वतत्त्वभावनया प्रहं करोति, कम् ? आत्मानं न तु उत्सेकं नयति । उक्तञ्च-"संतगुणकित्तणेण वि, पुरिसा लज्जति जे महासत्ता। इयरे पुण अलियपसंसणे वि अंगे न मायंति ॥१॥" किम्भूतः सन् ? 'साक्षात्' प्रत्यक्षीभूय शक्रेण 'चोदितः' प्रेरितः त्यक्त्वा गेहं “वइदेहि" ति सूत्रत्वात् 'विदेही विदेहजनपदाधिपः श्रामण्ये 'पर्युपस्थितः' उद्यतः, न तु तत्प्रेरणातोऽपि धर्म प्रति विप्लुतोऽभूदिति सूत्रार्थः ॥ ६१ ॥ किमेष एवैवंविध उत अन्योऽपि ? इत्याहएवं करेंति संबुद्धा, पंडिया पवियक्खणा। विणियति भोगेसु, जहा से णमी रायरिसि ॥१२॥ त्ति बेमि॥ व्याख्या-'एवमिति यथैतेन नमिना निश्चलत्वं कृतं तथाऽन्येऽपि कुर्वन्ति । कीदृशाः?–'सम्बुद्धाः' अवगतजीवाऽजीवादितत्त्वाः 'पण्डिताः' सुनिश्चितशाखार्थाः 'प्रविचक्षणाः' अभ्यासातिशयात् क्रियां प्रति प्रावीण्यवन्तः, तथाविधाश्च सन्तः किं कुर्वन्ति ? विनिवर्तन्ते' उपरमन्ति “भोगेसु" त्ति भोगेभ्यः, यथा स नमी राजर्षिस्तेभ्यो निवृत्तः, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ ६२ ॥ ॥इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनलघुटीकायां सुखबोधायां नमिप्रव्रज्याख्यं नवममध्ययनं समाप्तम् ॥ , “सद्गुणकीर्तनेनाऽपि, पुरुषा लजन्ते ये महासत्वाः । इतरे पुनरलीकप्रशंसनेऽपि अङ्गे न मान्ति ॥१॥"
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy