SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ XXX XCXCXCXCXX सर्पः तदुपमाः, किश्च कामान् 'प्रार्थयमानाः ' अपेर्गम्यमानत्वात् प्रार्थयमाना अपि 'अकामा:' इष्यमाणकामाभावाद् यान्ति दुर्गतिमिति कथं तत्याग आश्चर्यम् ? असद्भोगप्रार्थनमपि यद् भवता सम्भावितं तदप्यसङ्गतम्, मुमुक्षूणां कचिदाकाङ्क्षाया असम्भवात् । उक्तं हि - "मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः ।" इति सूत्रार्थः ॥ ५३ ॥ कथं | पुनः कामान् प्रार्थयमाना दुर्गतिं यान्ति ? अत आह— अहे वयइ कोहेणं, माणेण अहमा गई। माया गइपडिग्धाओ, लोभाओ दुहओ भयं ॥५४॥ व्याख्या – 'अधः' नरकगतौ व्रजति क्रोधेन, मानेन अधमा गतिः, "माय" त्ति सुव्यत्ययात् मायया गतेः - प्रस्तावात् सुगतेः प्रतिघातः - विनाशो गतिप्रतिघातः, लोभाद् “दुहउ" त्ति 'द्विधा' द्विप्रकारं - ऐहिकं पारत्रिकं च 'भयं' अनेकदुःखसम्पाताशङ्कया साध्वसं भवतीति सर्वत्र गम्यते । कामेषु हि प्रार्थ्यमानेष्ववश्यंभाविनः क्रोधादयस्ते चेदृशा इति कथं न तत्प्रार्थनातो दुर्गतिरिति सूत्रार्थः ॥ ५४ ॥ एवं बहुभिरप्युपायैस्तमिन्द्रः क्षोभयितुमशक्तः किमकरोत् ? इत्याहअवउज्झिऊण माहणरूवं विउरुविऊण इंदत्तं । वंदइ अभित्थुणतो, इमाहि मधुराहि वग्गूहिं ॥ ५५ ॥ अहो ते निज्जिओ कोहो, अहो माणो पराजिओ । अहो ते निरकिया माया, अहो लोभो वसीकओ५६ अहो ते अज्जवं साहू !, अहो ते साहु ! मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ॥५७॥ व्याख्या- 'अपोह्य' त्यक्त्वा ब्राह्मणरूपं “विउरुविऊण" त्ति विकृत्य 'इन्द्रत्वम्' उत्तरवैक्रियरूपं 'वन्दते' अनेकार्थत्वात् प्रणमति 'अभिषन्' स्तुतिं कुर्वन् 'आभिः' अनन्तरं वक्ष्यमाणाभिः 'मधुराभिः' श्रुतिसुखाभिः 'वाग्भिः ' वाणीभिः । तद्यथा— 'अहो' इति विस्मये, 'ते' त्वया निर्जितः क्रोधः, यतस्त्वमनमत्पार्थिववशीकरणप्रेरणायामपि न १ यथा ह्ययमज्ञैरवलोक्यमानः स्फुरन्मणिफणाभूषित इति शोभन इव विभाव्यते, स्पर्शनादिभिरनुभूयमानश्च विनाशायैव भवति । नमिराजर्षेः सौत्री वक्तव्यता ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy