________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१५१॥
| आकाशसमा, 'अनन्तिका' अन्तरहिता। उक्तञ्च-न सहस्राद्भवेत्तुष्टि-न लक्षान्न च कोटितः । न राज्यान्नैव देवत्वा
नवमं नेन्द्रत्वादपि देहिनाम् ॥१॥" तथा 'पृथ्वी' मही 'शालयः'. लोहितशाल्यादयः 'यवाः' प्रतीताः, 'चः' शेषधान्यसमुच्च
नमिप्रव| यार्थः, 'एवः' अवधारणे स च भिन्नक्रमो योक्ष्यते, 'हिरण्यं सुवर्ण, ताम्राद्युपलक्षणमेतत् , 'पशुभिः' गवाश्वादिभिः सह
ज्याऽऽख्य| 'प्रतिपूर्ण' समस्तं 'न' नैव 'अलं' समर्थ प्रक्रमाद् इच्छापूर्तये एकस्य जन्तोरिति गम्यते । 'इति' एतत् पूर्वोक्तं "विज" त्ति
Xमध्ययनम्। सूत्रत्वाद् विदित्वा 'तपः' द्वादशविधं चरेत्, तत एव निःस्पृहतया इच्छापरिपूर्तिसम्भवादिति सूत्रार्थः ॥ ४८-४९ ॥
नमिराजर्षेः एयमदृ निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥५०॥
सौत्रीअच्छेरगमन्भुदए, भोए चयसि पत्थिवा!। असंते कामे पत्थेसि. संकप्पेण विहन्नसि ॥५१॥
वक्तव्यता। व्याख्या-"अच्छेरगं" ति आश्चर्य वर्त्तते यत् त्वमेवंविधः 'अद्धतान्' आश्चर्यरूपान् भोगान् त्यजसि हे पार्थिव !, तत्त्यागतश्च 'असतः' अविद्यमानान् कामान् प्रार्थयसि, तदप्याश्चर्यमिति सम्बन्धः, अथवा कस्तवात्र दोषः'-'सङ्कल्पेन' उत्तरोत्तराप्राप्तभोगाभिलाषरूपेण विकल्पेन 'विहन्यसे' बाध्यसे. अपर्यवसितत्वाद एवंविधसङ्कल्पस्य । उक्तं हि-"अमीषां स्थूलसूक्ष्माणामिन्द्रियार्थविधायिनाम् । शक्रादयोऽपि नो तृप्ति, विषयाणामुपागताः ॥ १॥" इति सूत्रार्थः ॥५१॥
एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी. देविंद इणमब्बवी ॥५२॥ सल्ल कामा विसं कामा, कामा आसीविसोवमा। कामे पत्थेमाणा, अकामा जति दुग्गई ॥५३॥
॥१५१॥ व्याख्या-शल्यमिव शल्यं कामाः, विषमिव विष कामा:. कामाः 'आशीविषोपमाः' आशीविष:१शलति-देहान्तश्चलतीति शल्यम्-शरीरान्तः प्रविष्टं तोमरादि, यथा शल्यं अन्तश्चलद्विविधवाधाविधायि तथैतेऽपि । २ वेवेष्टि-व्यामोतीति विर्ष-तालपुटादि भुज्यमानमधुरमिव ।