________________
नमिराजर्षेः
सौत्रीवक्तव्यता।
दिभिः कथितः स्वाख्यातः, स्वाख्यातो धर्मो यस्य स वाख्यातधर्मः-चारित्री तस्य 'कला' भागं 'नार्घति' नार्हति षोडशीम् , इदमुक्तं भवति-पोडशांशसमोऽपि न भवति, अतो गृहाश्रमादयमेव श्रेयानिति सूत्रार्थः ॥४४॥
एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥४५॥
पुनर्निरभिष्वङ्गता परीक्षितुमिन्द्र उवाचहिरन्नं सुवन्नं मणिमुत्तं, कसं दूसं च वाहणं । कोसं वद्धावइत्ता णं, तओ गच्छसि खत्तिया! ॥४६॥
व्याख्या-'हिरण्यं' घटितसुवर्णम् , इतरत्तु सुवर्णम् , मणयः-चन्द्रकान्तनीलाद्याः मुक्ताश्च-मौक्तिकानि मणिमुक्तम् , 'कांस्यं' कांस्यभाजनादि, 'दूष्यं' वस्त्रं, 'चः' स्वगतानेकभेदसूचकः, 'वाहन' रथाऽश्वादि, 'कोशं' भाण्डागार चर्मलताद्यनेकवस्तुरूपं, 'वर्द्धयित्वा' वृद्धि प्राप्य ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ ४६॥ एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥४७॥
सुवन्नरुप्पस्स उ पचया भवे, सिया हु केलाससमा असंखया ।
नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणंतिया ॥४८॥ पुढवी साली जवा चेव, हिरन्नं पसुभिस्सह । पडिपुन्नं नालमेगस्स. इति विज्जा तवं चरे॥४९॥
व्याख्या-सुवर्ण च रूप्यं सुवर्णरूप्यं तस्य 'तुः' पुरणे, 'पर्वताः' पर्वतप्रमाणा राशयः "भवे" त्ति भवेयुः 'स्यात्' कदाचित् , 'हु' अवधारणे भिन्नक्रमश्च, ततः 'कैलाससमा एव' कैलासपर्वततुल्या एव न तु लघुपर्वतप्रमाणाः, कैलासश्च मेरुरिति वृद्धाः । तेऽपि 'असङ्ख्यकाः' सङ्ख्यारहिताः । नरस्य लुब्धस्य न 'तैः' तादृशैरपि सुवर्णरूप्यपर्वतैः "किश्चिदपि' स्वल्पमपि परितोषकारणमिति गम्यते। कुतः पुनरिदम्? इत्याह-'इच्छा' अभिलाषः 'हुरिति यस्माद् आकाशेन समा-तुल्या
उ०म०२६