SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृत्तिः । ।। १५० ।। दानानि, धर्मोपकरणानि च । साधुभ्यः साधुयोग्यानि देयानि विधिना बुधैः ॥ १ ॥” शेषाणि तु सुवर्णगोभूम्यादीनि प्राण्युपमद्देद्देतुतया सावद्यान्येवेति सूत्रार्थः ॥ ४० ॥ एयमहं निसामेत्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ ४१ ॥ व्याख्या — प्राग्वत् ॥४१॥ नवरमित्थं जिनधर्म्मस्थिरतामवधार्य प्रव्रज्यां प्रति दृढतां परीक्षितुकाम इदमवादीत् शक्रः - घोरासमं चत्ता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरतो, भवाहि मणुयाहिवा ! ॥ ४२ ॥ व्याख्या—घोरः- अत्यन्तदुरनुचरः स चासावाश्रमच 'घोराश्रमः ' गार्हस्थ्यम्, तस्यैवाऽल्पसत्त्वैर्दुष्करत्वात् । उक्तञ्च — “गृहाश्रमपरो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्कीबाः पाखण्डमाश्रिताः ॥ १ ॥” तं त्यक्त्वा अन्यं प्रार्थयस 'आश्रमं ' प्रव्रज्यालक्षणम्, नेदं क्लीबसत्त्वानुचरितं भवादृशामुचितम् । तर्हि किमुचितम् ? इत्याह – 'इह' अस्मिन्नेव गृहाश्रमे स्थित इति गम्यते, पौषधः - अष्टम्यादितिथिषु व्रतविशेषः तत्र रतः पौषधरतो भव, अणुव्रताद्युपलक्षणमेतत् अस्यैव चोपादानं पौषधदिनेष्ववश्यं भावतस्तपोऽनुष्ठानख्यापकम् । यत उक्तम्“सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु । अष्टम्यां पञ्चदश्याञ्च नियतं पौषधं वसेत् ॥ १ ॥” इति है मनुजाधिप ! इति सूत्रार्थः ॥ ४२ ॥ एयमहं निसामेत्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ४३ ॥ मासे मासे उ जो बालो, कुसग्गेणं तु भुंजए । ण सो सुक्खातधम्मस्स, कलं अग्घइ सोलसिं ॥४४॥ व्याख्या - मासे मासे एव न त्वर्द्धमासादौ 'यः' कश्चित् 'बालः' अविवेकः 'कुशाग्रेणैव' दर्भाप्रेणैव भुङ्क्ते न तु कराझुल्यादिभिः, ‘ने’ति निषेधे, 'सः' एवंविधः कष्टानुष्ठायी सुष्ठु - शोभनः सर्वसावद्यविरतिरूपत्वाद् आख्यातः - तीर्थकरा - XOXOXOX नवमं नमिप्रत्रज्याऽऽख्य मध्ययनम् । प्रत्येकबुद्ध चतुष्टयस्य मोक्षगम नम् । नमिराजर्षेः सौत्री वक्तव्यता । ॥ १५० ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy