________________
8X8X8XXXXX8X8X8XXX
व्याख्या—यक्तपुत्रकलत्रस्य 'निर्व्यापारस्य' परिहृत कृषिपाशुपाल्यादिक्रियस्य भिक्षोः 'प्रियम्' इष्टं न विद्यते 'किञ्चित्' अल्पमपि 'अप्रियमपि' अनिष्टमपि न विद्यते । एतेन यदुक्तं 'नास्ति किञ्चने'ति तत् समर्थितम् । एवमपि कथं सुखेन वसनं जीवनं च ? इत्याह — 'बहु' विपुलं 'खुः' अवधारणे, बह्वेव 'मुनेः' त्रिकालवेदिनः 'भद्रं' सुखम् अनगारस्य मिक्षोः 'सर्वतः ' बाह्याभ्यन्तराच्च परिग्रहादिति गम्यते, विप्रमुक्तस्य 'एकान्तम्' एकत्वभावनात्मकम् 'अनुपश्यतः' पर्यालोचयत इति सूत्रद्वयार्थः ।। १५-१६ ॥
एयमहं निसामेत्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ १७ ॥ पागारं कारइत्ता णं, गोपुरहालगाणि य । उस्सूलग सयग्घीओ, तओ गच्छसि खत्तिया ! ॥१८॥
व्याख्या—स्पष्टम् । ‘प्राकारं' सालं कारयित्वा 'गोपुराऽट्टालकानि च ' तत्र गोपुराणि - प्रतोलीद्वाराणि, गोपुरग्रहणम् अर्गलाकपाटोपलक्षणम्, अट्टालकानि - प्राकारकोष्ठकोपरिवर्त्तीनि आयोधनस्थानानि । “उस्सूलग" त्ति खादिका, “सयग्घीउ" त्ति 'शतद्भ्यः' यत्ररूपाः, तत एवं सर्वं निराकुलीकृत्य 'गच्छसी' ति तिब्व्यत्ययाद् गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ १७-१८ ॥
एयमहं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १९ ॥ सर्द्ध नगरं किच्चा, तवसंवरमग्गलं । खंतिं निउण पागारं तिगुत्तं दुप्पहंसगं ॥ २० ॥ धणुं परक्कमं किच्चा, जीवं च इरियं सदा । धियं च केयणं किच्चा, सच्चेण पलिमंथ ॥ २१ ॥ तवनारायजुत्तेण, भेत्तृणं कम्मकंचुयं । मुणी विगयसंगामो भवाओ परिमुच्चइ ॥ २२ ॥ व्याख्या- 'श्रद्धां' तत्त्वरुचिरूपाम् अशेषगुणाधारतया नगरं 'कृत्वा' विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि
प्रत्येकबुद्ध
चतुष्टयस्य
मोक्षगम
नम् । नमिराजर्षेः सौत्री
वक्तव्यता |