________________
श्री उत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ ९४७ ॥
EXOXOXOXOXOXOXXCXX CXCX
एयमहं निसामेत्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ ११ ॥ व्याख्या — एतमर्थं निशम्य हेतुकारणयोः - अनन्तरसूत्रसूचितयोः चोदितः - असिद्धोऽयं भवदभिहितो हेतुः कारणं च इत्यनुपपत्त्या प्रेरितो हेतुकारणचोदितः । ततो नमिं राजार्षी देवेन्द्र इदमब्रवीदिति सूत्रार्थः ॥ ११ ॥ एस अग्गी य वाऊ य, एयं डज्झइ मंदिरं । भगवं अंतेउरंतेणं, कीस णं नावपेक्खह ॥ १२ ॥ व्याख्या – 'एषः ' प्रत्यक्षोऽग्निश्च वायुश्व, 'एतत्' प्रत्यक्षं दह्यते 'मन्दिरं' वेश्म भवत्सम्बन्धीति शेषः । भगवन् ! “अंतेउरंतेणं” ति अन्तःपुराभिमुखं, “कीस" त्ति कस्मात् ? “णं" वाक्यालङ्कारे, 'नावप्रेक्षसे' नावलोक से इति सूत्रार्थः ॥ १२ ॥ ततश्च -
एम निसामेत्ता, ऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १३ ॥ व्याख्या—स्पष्टम् । नवरं हेतुकारणचर्चा बृहट्टीकातोऽवसेया । एवमुत्तरत्राऽपि ॥ १३ ॥ किमब्रवीत् ? इत्याहसुहं वसामो जीवामो, जेसिं मो नत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं ॥ १४॥ व्याख्या - सुखं यथाभवत्येवं 'वसामः' तिष्ठामः ' जीवामः' प्राणान् धारयामः । येषां "मो" इत्यस्माकं नास्ति 'किचन' वस्तुजातं यतः - "एकोऽहं न मे कश्चित्, स्वः परो वाऽपि विद्यते । यदेको जायते जन्तुम्रियते एक एव हि ॥ १ ॥” इति न किञ्चिदन्तः पुरादि मत्सत्कम्, अतो मिथिलायां दह्यमानायां न मे दह्यते ' किचन' स्वल्पमपि तत्त्वतो स्वकर्मफलभुजो जन्तव इति सूत्रार्थः ॥ १४ ॥ एतदेव भावयितुमाहचत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो । पियं ण विज्जई किंचि, अप्पियं पिण विजई ॥ १५ ॥ बहुं खु मुणिणो भद्दं, अणगारस्स भिक्खुणो । सङ्घओ विप्पमुक्कस्स, एगंतमणुपस्सओ ॥
१६ ॥
नवमं नमिप्रत्र
ज्याऽऽख्य
मध्ययनम् ।
प्रत्येकबुद्ध
चतुष्टयस्य मोक्षगम
नम् । नमिराजर्षेः सौत्री
वक्तव्यता |
॥ १४७॥