________________
BXOXOXOXOXOXOXOXOXOXOXOX
मिहिलाए चेइए वच्छे, सीयच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया ॥९॥
प्रत्येकबुद्धव्याख्या-'मिथिलायां' पुरि, चितिः-इह प्रस्तावात् पत्रपुष्पाद्युपचयस्तत्र साधु चित्यं चित्यमेव चैत्यं-उद्यानं तस्मिन् ,
चतुष्टयस्य "वच्छे" त्ति सूत्रत्वाद् हिलोपे वृक्षैः 'शीतच्छाये' शीतलच्छाये 'मनोरमे' मनोरमाभिधाने, पत्रपुष्पफलोपेते 'बहूनां'
मोक्षगमप्रक्रमात् खगादीनां 'बहुगुणे' फलादिभिः प्रचुरोपकारकारिणि 'सदा' सर्वकालमिति सूत्रार्थः ।।९।। ततः किम् ? इत्याह
नम् । वाएण हीरमाणम्मि, चेइयम्मि मणोरमे । दुहिया असरणा अत्ता, एए कंदंति भो! खगा॥१०॥ नमिराजः
व्याख्या-वातेन' वायुना 'हियमाणे' इतस्ततः क्षिप्यमाणे, वातश्च तदा शक्रेणैव कृत इति सम्प्रदायः । चितिः- सौत्रीइहेष्टकादिचयस्तत्र साधुः-योग्यश्चित्यः स एव चैत्यस्तस्मिन् , किमुक्तं भवति ?–अधोबद्धपीठिके उपरि चोच्छ्रितपताके
वक्तव्यता । 'मनोरमे' मनोभिरतिहेतौ वृक्षे इति शेषः । दुःखं सञ्जातं येषां ते दुःखिताः, 'अशरणाः' त्राणरहिताः अत एव |* | 'आर्ताः' पीडिताः 'एते' प्रत्यक्षाः 'क्रन्दन्ति' आक्रन्दशब्दं कुर्वन्ति । 'भोः' इत्यामन्त्रणे, 'खगाः' पक्षिणः । इह च | किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्ते ? इति यत् स्वजनाक्रन्दनमुक्तं तत् खगाक्रन्दनप्रायम् , आत्मा च वृक्षकल्पः,
तत्त्वतो हि नियतकालमेव सहावस्थितत्वेनोत्तरकालं च स्वगतिगामितया द्रुमाश्रितखगोपमा एवामी स्वजनादयः । उक्तं XIहि-"यद्वद् द्रुमे महति पक्षिगणा विचित्राः, कृत्वाऽऽयं हि निशि यान्ति पुनः प्रभाते । तद्वजगत्यसकृदेककुटुम्बजीवाः, | सर्वे समेत्य पुनरेव दिशो भजन्ति ॥ १॥" ततश्चाक्रन्दादिदारुणशब्दानामभिनिष्क्रमणहेतुत्वमसिद्धं स्वप्रयोजनहेतुकत्वा|त्तेषाम् । आह च-"आत्मार्थ सीदमानं स्वजनपरिजनो रौति हा हाऽऽरवार्तो, भार्या चात्मीयभोगं गृहविभवसुखं स्वं वयस्याश्च कार्यम् । क्रन्दत्यन्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वा यस्माच्च कश्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥ १॥" तथा च सति भवदुक्ते हेतुकारणे असिद्धे एवेत्युक्तं भवतीति सूत्रार्थः ॥ १०॥
6XOXOXXXXXX