SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- प्रधाने, प्राकृतत्वात् सुब्व्यत्ययः, 'शक : ' इन्द्रः 'माहनरूपेण' ब्राह्मणवेषेण आगत्येति शेषः, 'तदा हि' तस्मिन् महात्मनि ध्ययनसूत्रे प्रव्रज्यां ग्रहीतुमनसि तदाशयं परीक्षितुकामः स्वयमिन्द्र आजगाम । ततः सः 'इदं' वक्ष्यमाणं वचनं 'अब्रवीत्' श्रीनेमिचउक्तवानिति सूत्रार्थः ॥ ६ ॥ यदुक्तवांस्तदाहन्द्रीया सुखबोधा किं नु भो अज मिहिलाए, कोलाहलगसंकुला । सुवंति दारुणा सद्दा, पासाएसु गिहेसु य ॥ ७ ॥ व्याख्या – 'किमिति प्रश्ने, 'नु' इति वितर्के, 'भो:' इत्यामन्त्रणे, अद्य 'मिथिलायां' नगर्यां कोलाहलकेन-बहलकलकलात्मकेन सङ्कुलाः कोलाहलकसङ्कुलाः श्रूयन्ते 'दारुणाः' हृदयोद्वेगजनकाः 'शब्दाः ' विलपिताक्रन्दितादयः, 'प्रासादेषु' देवतानरेन्द्रभवनेषु 'गृहेषु' तदितरेषु चशब्दात् त्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥ ७ ॥ ततश्चएतम निसामेत्ता, ऊकारणचोइओ । ततो नमी रायरिसी, देविंदं इणमव्यवी ॥ ८ ॥ व्याख्या – 'एतम्' अनन्तरोक्तमर्थं निशम्य हेतुः - पञ्चावयववाक्यरूपः कारणं च - अन्यथाऽनुपपत्तिमात्रं ताभ्यां चोदितः - प्रेरितो हेतुकारणचोदितः, 'कोलाहलकसङ्कुलाः शब्दाः श्रूयन्ते' इत्यनेन हि उभयमेतत् सूचितम् । तथाहि--अनुचितमिदं भवतोऽभिनिष्क्रमणमिति प्रतिज्ञा । आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः । प्राणव्यपरोपणवदिति दृष्टान्तः । यद् यद् आक्रन्दादिदारुणशब्दहेतु तत् तद् धर्मार्थिनोऽनुचितम्, यथा प्राणव्यपरोपणादि, तथा चेदं भवतो निष्क्रमणमित्युपनयः । तस्मादाक्रन्दादिदारुणशब्दहेतुत्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति । पञ्चावयववाक्यमिह हेतुः । शेषावयवविवक्षारहितं तु आक्रन्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनानुपपन्नमित्येतावन्मात्रं कारणम् । अनयोस्तु पृथगुपादानं प्रतिपाद्यभेदतः साधनवाक्यवैचित्र्यसूचनार्थम् । 'ततः' प्रेरणानन्तरं नमी राजर्षिदेवेन्द्रमिदमब्रवीदिति सूत्रार्थः ॥ ८ ॥ किं तदुक्तवान् ? इत्याह ख्या लघुवृत्तिः । XCXCXXXXXCXCXCXCXCX€ ॥ १४६ ॥ XBXQXCXX CXCXCXXX नवमं नमित्रज्याऽऽख्यमध्ययनम् । प्रत्येकबुद्ध चतुष्टयस्य मोक्षगम नम् । नमिराजर्षेः सौत्री- 1 वक्तव्यता । ॥ १४६ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy