________________
पयाभिसित्तं । एवायरियं उवचिट्ठएज्जा, अगंतनाणोवगओऽवि संतो ॥ १॥ किं तर्हि कुर्यात् ? इत्याह-आगम्य|गुर्वन्तिकमेत्योत्कुटुकः-मुक्ताऽऽसनः, कारणतः पादपुञ्छनादिगतः सन् पृच्छेत् , सूत्रादिकमिति गम्यते । प्राञ्जलिपुट:प्रकृष्टाञ्जलिपुट इति सूत्रार्थः ॥ २२ ॥ ईदृशस्य शिष्यस्य गुरुणा यत् कृत्यं तदाहएवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्त, वागरेज जहासुयं ॥ २३ ॥
व्याख्या-एवं-इत्युक्तप्रकारेण विनययुक्तस्य-विनयान्वितस्य सूत्रं-कालिकोकालि कादि अर्थञ्च-तस्यैवाऽभिधेयं तदुभयं-सूत्राऽर्थोभयं पृच्छतो-ज्ञातुमिच्छतः शिष्यस्य-स्वयं दीक्षितस्योपसंपन्नस्य वा व्यागृणीयात्-व्याकुर्याद् यथायेन प्रकारेण श्रुतं-आकर्णितं गुरुभ्यः सकाशादिति गम्यते, न तु स्वबुद्ध्यैवोत्प्रेक्षितमित्यभिप्रायः । अनेन च-आयारे सुय विणए, विक्खिवणे चेव होइ बोधवे । दोसस्स य णिग्याए विणए चउहेस पडिवत्ती ॥ १॥ इति चतुर्विधाचार्यविनयान्तर्गतस्य "सुत्तं अत्थं च तहा हियकर नीसेसयं च वाएइ । एसो चउविहो खलु सुयविणओ होइ बोद्धबो ॥२॥ सुत्तं गाहेइ उज्जुत्तो अत्थं च सुणावए पयत्तेणं । जं जस्स होइ जोग्गं परिणामगमाइ तं तु सुयं ॥ ३ ॥ निरैसेसमपरिसेसं जाव समत्तं तु ताव वाएइ । एसो सुयविणओ खलु, निहिट्ठो पुव्वसूरीहिं ॥ ४ ॥” इत्यागमाऽभिहितस्य श्रुतविनयस्याऽभिधानं कृतमिति सूत्रार्थः ।। २३ । पुनः शिष्यस्य वाग्विनयमाह
१ आचारे श्रुते विनयः विक्षेपणे चैव भवति बोद्धध्यः । दोषस्य च निर्घाते विनये चतुर्थेषा प्रतिपत्तिः ॥ १॥ २ सूत्रमथं च तथा हितकर निःशेवं च वाचयति । एष चतुर्विधः खलु, श्रुतविनयो भवति बोद्धव्यः ॥२॥ ३ सूत्रं ग्राहयत्युधुक्तोऽर्थ च श्रावयति प्रयत्नेन । यद् यस्य भवति योग्यं परिणामकादि तत्तु श्रुतम् ॥३॥ .४ निश्शेषमपरिशेषं यावत्समातं तु तावद्वाचयति । एष श्रुतविनयः खलु निर्दिष्टः पूर्वसूरिभिः ॥ ४ ॥