SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः प्रथमं विनयाध्ययनम्। ॥८॥ व्याख्या-आचार्यैः-गुरुभिः 'वाहितो' त्ति व्याहृतः-शब्दितस्तुष्णीकः-तुष्णींशीलो न कदाचिदपि-ग्लानाद्यवस्थायामपि भवेदिति गम्यते । किञ्च—"धन्नाण चेव गुरुणो, आदेसं देंति गुणमहोयहिणो। चंदणरसो अउन्नाण निवडए नेय अंगम्मि ॥१॥” इति चिन्तयन् प्रसादप्रेक्षी-प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति गुरव इति प्रसादाकाङ्क्षी, नियोगार्थी-मोक्षार्थी उपतिष्ठेत्-मस्तकेन वन्द इति वदन् सविनयमुपसर्पद् गुरुं सदा-सर्वदेति सूत्रार्थः ॥ २०॥ आलवंते लवंते वा, ण निसिज्जा कयाइ वि। चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ॥२१॥ ___ व्याख्या-आलपति-सकृद् वदति, लपति वा वारंवारं गुरावितिगम्यते, न निषीदेत्-न निषण्णो भवेत् कदाचिदपि व्याख्यानादिना व्याकुलतायामपि, किन्तु त्यक्त्वा-अपहाय आसनं-पादपुञ्छनादि धीरो-बुद्धिमान् यतःयत्नवान् 'जत्तं ति प्राकृतत्वाद् बिन्दुलोपे तकारस्य च द्वित्वे यद् गुरव आदिशन्ति तत् प्रतिशृणुयात्-अवश्यंविधेयतयाऽभ्युपगच्छेदिति सूत्रार्थः ॥ २१ ॥ आसणगओन पुच्छेज्जा, नेव सेजागओ कयाइ वि।आगम्मुकुडुओ संतो, पुच्छिन्ना पंजलिउडो २२ व्याख्या-आसनगतः-आसनाऽऽसीनो न पृच्छेत् सूत्रादिकमिति गम्यते । नैव शय्यागत:-संस्तारकस्थितः, तथाविधाऽवस्थां विनेत्युपस्कारः, कदाचिदपि-बहुश्रुतत्वेऽपि । किमुक्तं भवति ?-बहुश्रुतेनाऽपि संशये सति प्रष्टव्यम्, पृच्छताऽपि च नाऽवज्ञया, सदा गुरुविनयस्याऽनतिक्रमणीयत्वात् । तथा चागमः-जहाहिअग्गी जलणं नमसे, नाणाहुईमंत ॥८॥ धन्येभ्यश्चैव गुरव आदेशं ददति गुणमहोदधयः । चंदनरसोऽपुण्यानां निपतति नैवाऽङ्गे ॥१॥ २ यथाऽहिताग्निज्वलनं नमस्यति नानाहुतिमन्नपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेतानन्तज्ञानोपगतोऽपि सन् ॥1॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy