SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 8X8X8** न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ । न जुंजे ऊरुणा ऊरुं, सयणे ण पडिस्सुणे ॥ १८ ॥ व्याख्या - न पक्षतो- दक्षिणादिपक्षमाश्रित्य, उपविशेदिति शेषः, तथोपवेशने तत्पङ्किसमावेशतस्तत्साम्याधाने| नाऽविनयाभावाद् गुरोरपि वक्रावलोकने स्कन्धकन्धरादिबाधासंभवात् । न पुरतो - अग्रतः, तत्र वन्दकजनस्य गुरुवद| नाऽनवलोकादिना अप्रीतिभावात् । नैव कृत्यानां - कृतिकर्मार्हाणां गुरूणां पृष्ठतः - पृष्ठमाश्रित्य द्वयोरपि मुखाऽदर्शने तथा विधरसवत्ताभावात् । न युङयाद्-न संघट्टयेत्यासन्नोपवेशनादिभिरुरुणा - आत्मीयेन उरुं - गुरुसम्बन्धिनं, तथाकरणे | कृत्याविनयसद्भावात् । उपलक्षणं चैतत् शेषाङ्गस्पर्शपरिहारस्य । शयने - शय्यायां शयित आसीनो वेति शेषः, किम् ? इत्याह-न प्रतिशृणुयात् । किमुक्तं भवति ? — शय्यागतो गुरुणाऽऽकारित उक्तो वा कृत्यं प्रति न तथास्थित एवाऽवज्ञया कुर्म एवमित्यादिवचनतः प्रतिजानीयात्, किन्तु गुरुवचनसमनन्तरमेव संभ्रान्तचेता विनयविरचिताञ्जलिः समीपमागम्य पादपतनपुरस्सरमनुगृहीतोऽहमिति मन्यमानो भगवन् ! इच्छामोऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८ ॥ तथा— नेव पल्हत्थियं कुज्जा, पक्खपिंडं व संजए । पाए पसारए वा वि, ण चिट्ठे गुरुणंतिए ॥ १९ ॥ व्याख्या—नैव पर्यस्तिकां - जानुजङ्घोपरि वस्त्रवेष्टनरूपां कुर्यात्, पक्षपिण्डं वा - बाहुद्वयकायपिण्डनात्मकं संयतः - साधुः, तथा पादौ प्रसारयेद् वापि नैव । वा - समुच्चये । अपि - किं पुनरित इतो विक्षिपेदिति दर्शनार्थः । अन्यच्च न | तिष्ठेत्-नाssसीत गुरुणामन्तिके - प्रक्रमादतिसन्निधौ, किन्तूचितदेश एव, अन्यथाऽविनयदोषसंभवात् । उपलक्षणं चैतदुपष्टम्भादीनामिति सूत्रार्थः ॥ १९ ॥ तथा — आयरिएहिं वाहिंतो, तुसिणीओ ण कयाइ वि । पसायपेही णियागट्ठी, उवचिट्ठे गुरुं सया ॥ २० ॥ 8X8X8X8X8 **
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy