________________
XXXX
थोवमद्धाणं ॥ ६ ॥ पुरिसंसय महिलाए, पुरिसस्स य दाहिणा जहुत्तफला । महिलंसपुरिसमहिलाण होंति वामा जहुत्तफला ॥ ७ ॥ इत्यादि ॥ चः सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते, कोऽर्थः ? – तदभिधायकानि शास्त्राणि व्यापारयन्ति । पुनः 'ये' इत्युपादानं लक्षणादिभिः पृथक्सम्बन्धसूचनार्थम् । ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते न तु समस्तान्येव, ते किम् ? इत्याह- 'न हु' नैव 'ते' एवंविधाः श्रमणाः साधवः 'उच्यन्ते' अभिधीयन्ते । इह च पुष्टाऽऽलम्बनं विनैत| व्यापारणे एवमुच्यत इति सूत्रार्थः ॥ १३ ॥ ते चैवंविधा यदवाप्नुवन्ति तदाह
- इह जीवियं अणियमेत्ता, पन्भट्ठा समाहिजोएहिं । ते कामभोगरसगिद्धा, उववज्जंति आसुरे काए १४ व्याख्या –— 'इह' जन्मनि 'जीवितम्' असंयमजीवितम् 'अनियम्य' द्वादशविधतपोविधानादिनाऽनियन्त्रय ' प्रभ्रष्टाः ' च्युताः समाधिः- चित्तस्वास्थ्यं तत्प्रधाना योगाः - शुभमनोवाक्कायव्यापाराः समाधियोगास्तेभ्यः, अनियन्त्रितात्मनां हि पदे पदे तद्धंशसम्भव इति, 'ते' अनन्तरमुक्ताः कामभोगेषु - अभिहितस्वरूपेषु रसेषु च - मधुरादिषु गृद्धाः - अभिकाङ्क्षावन्तः कामभोगरसगृद्धाः, भोगान्तर्गतत्वेऽपि रसानां पृथगुपादानमतिगृद्धिविषयताख्यापनार्थम्, 'उपपद्यन्ते' जायन्ते 'आसुरे' असुरसंबन्धिनि काये । इदमुक्तं भवति — एवंविधाः किञ्चित्कादाचित्कमनुष्ठानं कुर्वन्तोऽप्यसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थ: ॥ १४ ॥ ततोऽपि च्युतास्ते किमवाप्नुवन्ति ? इत्याह
तत्तोऽवि य उवहित्ता, संसारं बहुं अणुपरियत्तंति । बहुकम्मले वलित्ताणं, बोही होइ सुदुल्लभा तेसिं ॥ १५ ॥
व्याख्या—ततोऽपि चासुरनिकायाद् 'उद्धृत्य' निःसृत्य 'संसारं ' चतुर्गतिरूपं 'बहु' विपुलं “अणुपरियत्तंति” 'अनुपरियन्ति' सातत्येन पर्यटन्ति । किञ्च बहुकर्म्मलेपलिप्तानां 'बोधि:' प्रेत्यजिनधर्मावाप्तिर्भवति सुदुर्लभा 'तेषाम्'
कपिलकेव
लिना साधुधर्मकथनम् ।