SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । अष्टमं कापिलीयमध्ययनम् । कपिलकेव लिना साधुधर्मकथनम्। ॥१२७॥ XOXOXOXOXOXOXOXOXOXOXOXO एवमेतेऽपि धीरा व्रतादिनोपायेन तरन्ति भवमिति । उक्तञ्च-"विषयगणः कापुरुष, करोति वशवर्त्तिनं न सत्पुरुषम् । * बध्नाति मशकमेव हि, लूतातन्तुर्न मातङ्गम् ॥१॥” इति सूत्रार्थः ॥६॥ किं सर्वेऽपि साधवोऽतरं तरन्ति उत न ? इत्याह समणा मु एगे वदमाणा, पाणवहं मिया अयाणंता। ___ मंदा निरयं गच्छंति, बाला पावियाहिं दिट्ठीहिं ॥७॥ व्याख्या-श्रमणाः' साधवः-मुनयः 'स्मः' इत्यात्मनिर्देशार्थत्वाद् वयमिति 'एके' केचन तीर्थान्तरीयाः 'वदमानाः स्वाभिप्रायमुदीरयन्तः 'प्राणवधं प्राणघातं मृगा इव 'मृगाः' प्राग्वद्, 'अज्ञाः' अजानन्त इति 'के प्राणिनः ? के वा | तेषां प्राणाः कथं वधः?? इत्यनवबुध्यमानाः, अनेन च प्रथमव्रतमपि न विदन्ति आस्तां शेषाणीत्युक्तं भवति । अत एव मन्दा इव 'मन्दाः' मिथ्यात्वमहारोगग्रस्ततया 'निरयं नरकं गच्छन्ति' यान्ति बाला इव 'बालाः' विशिष्टविवेक| विकलत्वात् , 'पापिकाभिः' पापहेतुभिः 'दृष्टिभिः' दर्शनाभिप्रायरूपामिः "ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रं, मरुन्यो वैश्य, तपसे शूद्रम् ।" तथा च-"यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन | लिप्यते ॥१॥" इत्यादिकामिर्दयादमबहिष्कृताभिः, तदहिष्कृतानां च विविधवल्कलवेषादिधारिणामपि न केनचित् पापप|रित्राणम् । तथा च वाचकः-"चर्मवल्कलचीराणि, कूर्चमुण्डशिखाजटाः । न व्यपोहन्ति पापानि, शोधको तु दयादमौ ॥१॥” इति सूत्रार्थः ॥ ७॥ अत एवाह सूत्रकृत् नहु पाणवहं अणुजाणे, मुच्चेज कयाइ सबदुक्खाणं । एवमारिएहिं अक्खायं, जेहिं इमो साहुधम्मो पन्नत्तो ॥८॥ व्याख्या-'न हु' नैव प्राणवधं मृषावादाद्युपलक्षणं चैतत्, "अणुजाणे" त्ति अपेलृप्तस्य दर्शनादू अनुजानन्नपि आस्तां |॥१२७॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy