SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ भोगामिसदोसविसन्ने, हिअणिस्सेयसबुद्धिवोचत्थे । स्वयंबुद्धेन बाले य मंदिए मूढे, बज्झति मच्छिया व खेलम्मि ॥५॥ कपिलकेवव्याख्या-भोगा एव गृद्धिहेतुत्वाद् आमिषं भोगामिषं तदेव दोषः आत्मदूषणाद भोगामिषदोषस्तस्मिन् विषण्णः-IX लिना चौरविविधं सन्नः-निमग्नः, हिते निःश्रेयसे-मोक्षे बुद्धिः-तत्प्राप्त्युपायविषया मतिः विपर्यस्ता-विपर्ययवती यस्य स हित समूहस्य निःश्रेयसबुद्धिविपर्यस्तः, 'बालश्च' अज्ञः "मंदिए" त्ति सूत्रत्वात् 'मन्दः' धर्मकार्यकरणं प्रति अनुद्यतः 'मूढः' मोहाकुलि-1 सम्बोध|तमानसः 'बध्यते' शिष्यते अर्थाद् ज्ञानावरणादिकर्मणा मक्षिकेव 'खेले' श्लेष्मणि रजसेति गम्यते । इदमुक्तं भवति करणम् । यथाऽसौ तद्गन्धादिभिराकृष्यमाणा खेले मजति, मन्ना च रेवादिना बध्यते, एवं जन्तुरपि भोगामिषमग्नः कर्मणेति सूत्रार्थः ॥ ५ ॥ ननु यद्येवममी भोगाः कर्मबन्धकारणं किं नैतान सर्वजन्तवस्त्यजन्ति ? इत्याह दुपरिचया इमे कामा, णो सुजहा अधीरपुरिसेहिं। अह संति सुबया साह, जे तरंति अतरं वणिया व ॥६॥ व्याख्या-'दुःपरित्यजाः' दुःपरिहार्याः ‘इमे' प्रत्यक्षत उपलभ्यमानाः कामाः 'नो' नैव "सुजह" ति सूत्रत्वात् 'सुहानाः' सुत्यजा विषसम्पृक्तमधुरान्नवत् । कैः ? 'अधीरपुरुषैः' असात्त्विकनरैः । यच्चेह 'दुःपरित्यजाः' इत्युक्त्वा पुनः 'न सुजहाः' इत्युक्तं तदत्यन्तदुस्त्यजत्वख्यापकम् । अधीरग्रहणेन तु धीरैः सुत्यजा एव इत्युच्यते, अत एवाह-'अर्थ'त्युपन्यासे, I'सन्ति' विद्यन्ते 'सुव्रताः' निष्कलङ्कवताः 'साधवः' मुनयः, ये किम् ? इत्याह-ये 'तरन्ति' परम्परया अतिक्रामन्ति NI'अतरं' तरीतुमर्शक्यं भवमित्यर्थः, वणिज इव, वाशब्दस्येवार्थत्वात : यथा हि वणिजोऽतरं नीरधिं यानपात्रादिना तरन्ति उ० अ०२२मा १ विषयगणं भवं वा। XOXOXOXOXOXOXOXOXXX XXXXXXXXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy