SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । बालस्स पस्स बालत्तं, अहम्म पडिवजिया। चिच्चा धम्म अहम्मिढे, णरए उववजह ॥ २८॥ सप्तमं धीरस्स पस्स धीरत्तं, सवधम्माणुवत्तिणो । चिच्चा अहम्मं धम्मिढे, देवेसु उववज्जई ॥२९॥ औरभ्रीयमतुलियाण बालभावं, अबालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणी॥३०॥ त्ति बेमि॥X ध्ययनम् । __व्याख्या-'बालस्य' अज्ञस्य 'पश्य' अवधारय 'बालत्वम्' अज्ञत्वम् । किं तत् ? इत्याह-अधर्म' धर्मविपक्षं बाल-पण्डिविषयासक्तिरूपं 'प्रतिपद्य' अभ्युपगम्य 'त्यक्त्वा' हित्वा 'धर्म' विषयनिवृत्तिरूपं सदाचारं "अहम्मि?" त्ति प्राग्वत् तयोः स्वरूपं 'नरके' सीमन्तकादौ उपलक्षणत्वादन्यत्र वा दुर्गतौ उत्पद्यते ॥ तथा धीः-बुद्धिस्तया राजत इति धीरः-बुद्धिमान् परी फलं च । पहायक्षोभ्यो वा धीरस्तस्य 'पश्य' प्रेक्षस्व 'धीरत्वं' धीरभावम् , सर्व धर्म-क्षान्त्यादिरूपम् अनुवर्तते-तदनुकूलाचारतया स्वीकुरुत इत्येवंशीलो यस्तस्य सर्वधर्मानुवर्तिनः, धीरत्वमाह-'त्यक्त्वा' हित्वा 'अधर्म' विषयाभिरतिरूपमसदाचारम् , “धम्मेहे" त्ति इष्टधा देवेषु उपपद्यत इति । यतश्चैवमतो यद्विधेयं तदाह-तोलयित्वे'ति प्राग्वत् 'बालभावं' बालत्वम् "अबालं" ति भावप्रधानत्वात् निर्देशस्य अबालत्वं 'चः' समुच्चये, “एवे"ति प्राकृतत्वाद् अनुवारलोपे 'एवम् अनन्तरोक्तप्रकारेण 'पण्डितः' बुद्धिमान त्यक्त्वा 'बालभावं बालत्वं "अबालं" ति अबालत्वं 'सेवते' अनुतिष्ठति 'मुनिः' यतिरिति सूत्रत्रयार्थः ॥ २८-२९-३० ॥ इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ ७ ॥ ॥१२३॥ FoXOXOXOXOXOXOX ॥१२३॥ ॥ इति श्रीनेमिचन्द्रसूरिविरचितायां सुखबोधायां उत्तराध्ययनलघु टीकायामुरभ्रीयं सप्तममध्ययनं समाप्तम् ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy