________________
कामाऽनिवृत्तयोर्दोष
गुणौ।
व्याख्या-'इहे'ति मनुष्यत्वे जैनशासने वा प्राप्ते इति शेषः, कामेभ्यः अनिवृत्तः-अनुपरतः कामानिवृत्तस्तस्य आत्मनोऽर्थः 'आत्मार्थः' अर्यमानतया स्वर्गादिः 'अपराध्यति' अनेकार्थत्वाद् धातूनां नश्यति, दुर्गतिगमनेनेति भावः । | आह–विषयवाञ्छानिरोधिनि जिनागमे सति कथं कामानिवृत्तिसम्भवः ? उच्यते- 'श्रुत्वा' उपलक्षणत्वात् प्रतिपद्य च 'नैयायिकं' न्यायोपपन्नं 'मार्ग' सम्यग्दर्शनादिकं मुक्तिपथं 'यत्' यस्मात् 'भूयः' पुनः परिभ्रश्यति, कामानिवृत्तित इति शेषः । कोऽभिप्रायः?—यो जिनागमश्रवणात् कामनिवृत्ति प्रतिपन्नोऽपि गुरुकर्मकत्वात् प्रतिपतति, ये तु श्रुत्वाऽपि न प्रतिपन्नाः, श्रवणं वा येषां नास्ति ते कामानिवृत्ता एवेति भाव इति सूत्रार्थः॥२५॥ यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह
इह कामनियहस्स, अत्तहे नावरज्झति । पूतिदेहनिरोहेणं, भवे देवे त्ति मे सुतं ॥२६॥
व्याख्या-इह कामेभ्यो निवृत्तः कामनिवृत्तस्तस्य 'आत्मार्थः' स्वर्गादिः 'न अपराध्यति' न भ्रश्यति, किं पुनरेवम् ? | यतः पूतिः-कुथितो देहः-अर्थात् औदारिकशरीरं तस्य निरोधः-अभावः पूतिदेहनिरोधस्तेन भवेत् स्यात् प्राकृतत्वात् कामनिवृत्तः 'देवः' सौधर्मादिनिवासी सुरः, उपलक्षणत्वात् सिद्धो वा, 'इति' एतत् मया 'श्रुतम्' आकर्णितं परमगुरुभ्य इति गम्यते । अनेन स्वर्गाद्यवाप्तिरात्मार्थानपराधे निमित्तमुक्तमिति सूत्रार्थः ॥ २६ ॥ ततश्च यदसौ आप्नोति तदाहहद्री जती जसो वन्नो, आउं सुहमणुत्तरं । भुज्जो जत्थ मणुस्सेसु, तत्थ से उववजह ॥२७॥
व्याख्या-'ऋद्धिः' कनकादिसमुदायः, 'द्युतिः' शरीरकान्तिः, 'यशः' पराक्रमकृता प्रसिद्धिः, 'वर्णः' गाम्भीर्यादिगणैः श्लाघा गौरवत्वादि वा, 'आयुः जीवितम् , 'सुखं' यथेप्सितविषयावाप्तो आह्वादः, न विद्यते उत्तरं-प्रधानम
अस्मादित्यनुत्तरम, इदं सर्वत्र योज्यते, 'भूयः' पुनः उत्तराण्येव तानि अस्य सम्भवन्ति 'यत्र' येषु मनुष्येष तत्र तेषु। |सः 'उत्पद्यते' जायत इति सूत्रार्थः ॥ २७ ॥ एवं कामानिवृत्त्या यस्य आत्मार्थोऽपराध्यति स बाल इतरस्तु पण्डित इत्यर्थादुक्तम् । सम्प्रति पुनरनयोरेव साक्षात् स्वरूपं फलं चोपदर्शयन्नुपदेशमाह
FoXXXXXXXXXXXX