SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उ० अ० २१ णारया णरए घोरे, पावकम्माण कारया । अच्छिमीलणमेत्तं पि, जत्थ सोक्खं ण विज्जए ॥ २ ॥ छिंदणं भिंदणं घोरं, वाहणं भारभंजणं । दमणंकणं च दाहं च, परोप्परविघायणं ॥ ३ ॥ सीउण्हखुप्पिवासाओ, ताडणावाहणाणि य । सहते पावकम्मा उ, तिरिक्खा वेयणा बहू ॥ ४ ॥ " किमित्येवम् ? अत आह— 'देवत्वं' देवभवं 'मानुषत्वं च ' नरभवं 'यद्' यस्मात् 'जितः' हारितः "लोलयासढे" ति लोलता - पिशितादिलाम्पट्यं तद्व्याप्तत्वात् सोऽपि लोलतेत्युक्तः, | शठः - विश्वस्तजनवश्चकः । इह च लोलता पश्चेन्द्रियवधाद्युपलक्षणम्, ततश्च नरकहेत्वभिधानमेतद् । यत उक्तम् — “महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेणं जीवा निरयाउयं कम्मं नियच्छंति ॥” शठ इत्यनेन तु शाठ्यमुक्तम्, तच्च तिर्यग्गतिहेतुः । उक्तञ्च – “मायातिर्यग्योनस्ये” ति । अयमत्राशयः — यतोऽयं बालो लोलतया शाठ्येन च देवत्वं मनुजत्वं च हारितः अतोऽस्य द्विधैव गतिरिति सूत्रार्थः ॥ १७ ॥ पुनर्मूलच्छेदमेव समर्थयितुमाह— तओ जिए सई होइ, दुविहं दुग्गइं गए । दुल्लभा तस्स उम्मग्गा, अद्धाए सुइरादवि ॥ १८ ॥ व्याख्या—‘ततः’ देवत्वमनुजत्वजयात् “जिय" त्ति व्यवच्छेदफलत्वाद्वाक्यस्य जित एव " सइ " त्ति सदा भवति 'द्विविधां' द्विभेदां 'दुर्गतिं' दुष्टगतिं 'गतः' प्राप्तः । सदा जितत्वमेव व्यनक्ति–दुर्लभा 'तस्य' बालस्य “उम्मग्ग" त्ति सूत्रत्वात् 'उन्मज्जा' नारकतिर्यग्गतिनिर्गमनात्मिका, 'अद्धायां' काले- आगामिन्यां 'सुचिरादपि ' अद्धा - शब्देनैव कालाभिधानात् सुचिरशब्दः प्रभूतत्वमेवाह, ततोऽयमर्थः - अनागतायामद्धायां प्रभूतायामपि, बाहुल्यात् चेत्थ - १ नारका नरके घोरे, पापकर्मणां कारकाः । अक्षिमीलनमात्रमपि, यत्र सौख्यं न विद्यते ॥२॥ छेदनं भेदनं घोरं, वहनं भारभञ्जनम् । दमनमङ्कनं च दाहं च, परस्परविघातनम् ॥३॥ शीतोष्णक्षुत्पिपासाः, ताडनाबाधनानि च । सहन्ते पापकर्माणस्तु तिर्यञ्चो वेदना बह्वीः ॥ ४॥” २ “महाऽऽरम्भतया महापरिग्रहतया मांसाहारेण पञ्चेन्द्रियवधेन जीवा नरकायुष्कं कर्म नियच्छन्ति ॥” धर्मविषया उपमा |
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy