________________
हुताशनेन । मलिम्लुचेनांऽशहरेण नाशं, नीयेत वित्तं क धने स्थिरत्वम् ? ॥ १ ॥" 'बहु' प्रभूतं 'सचित्य' उपाय 'रजः' अष्टप्रकारं कर्म ' ततः' तदनन्तरं 'कर्मगुरुः' कर्म्मभारितः 'जन्तुः' प्राणी प्रत्युत्पन्नं वर्त्तमानं तस्मिन् परायण:तन्निष्ठः प्रत्युत्पन्नपरायणः "एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । " इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इति यावत् । "अए घ" त्ति अजः पशुः स चेह प्रक्रमादुरभ्रस्तद्वत्, "आगयाएसे" ति प्राकृतत्वाद् 'आगते' प्राप्ते आदेशेप्राहुणके, एतेन प्रपचितज्ञविनेयाऽनुग्रहायोक्तमेव उरभ्रदृष्टान्तं स्मारयति । किम् ? इत्याह-- 'मरणान्ते' प्राणपरित्यागा| त्मनि अवसाने शोचति । किमुक्तं भवति यथाऽऽदेशे आगते उरभ्र उक्तनीत्या शोचति तथाऽयमपि 'धिग् मां विषयव्यामोहत उपार्जितगुरुकर्माणं, हा ! क्चेदानीं मया गन्तव्यम् ?" इत्यादि प्रलापतः खिद्यते, अत्यन्तनास्तिकस्यापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः ॥ ८ ॥ ९ ॥ अनेनैहिकोऽपाय उक्तः । सम्प्रति पारभविकमाह—
तओ आउ परिक्खीणे, चुता देहा विहिंसगा। आसुरीयं दिसं बाला, गच्छंति अवसा तमं ॥ १० ॥ व्याख्या - ' ततः' शोचनानन्तरम् उपार्जितगुरुकर्माणः “आउ” त्ति आयुषि तद्भवसम्बन्धिनि जीविते 'परिक्षीणे' सर्वथा क्षयं गते, कथचिदायुः क्षयस्याऽऽवीचीमरणेन प्रागपि सम्भवादेवमुच्यते, 'च्युताः ' भ्रष्टाः 'देहात् ' शरीरात् 'विहिंसकाः ' विविधप्रकारैः प्राणिघातकाः “आसुरीयं" ति असुराः - रौद्रकर्मकारिण उच्यन्ते, तेषामियमासुरीया तां 'दिशं' भावदिशं नरकगतिमित्यर्थः, 'बालाः' अज्ञाः 'गच्छन्ति' यान्ति 'अवशाः' कर्मपरवशाः, सर्वत्र बहुवचननिर्देशो व्याप्तिख्यापनार्थः, यथा नैक एवंविधः किन्तु बहव इति । तमोयुक्तत्वात् तमः । उक्तं हि "निंबंधयारतमसा, ववगयगह- चंद-सूरनक्खत्ता । मरया अणंतवियणा, अणिट्ठसद्दाइवसया य ॥ १ ॥” इति सूत्रार्थः ॥ १० ॥ सम्प्रति काकिण्याम्रदृष्टान्तद्वयमाह -
1 निस्यान्धकारतमसो, व्यपगतमह-चन्द्र-सूर्य-नक्षत्राः । नरका अनन्तवेदनाः, अनिष्टशब्दादिवशगाश्च ॥ १ ॥”
दान्तिक - योजना |