________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥११७॥
व्याख्या – 'हिंस्रः ' स्वभावत एव प्राणिव्यपरोपणकृत्, 'बालः' अज्ञः, 'मृषावादी' अलीकभाषकः, 'अध्वनि' मार्गे 'विलोपक : ' मोषकः - पथि गच्छतो जनान् सर्वस्वहरणतो लुण्ठति, अन्यैरदत्तं हरति 'अन्यादत्तहरः' ग्रामनगरादिषु चौर्यकृत्, 'स्तेनः' चौर्येणैवोपकल्पितवृत्तिः, 'मायी' वचनैकचित्तः, 'कन्नुहरः' कस्यार्थं नु इति वितर्के हरिष्यामीत्यध्यवसायी, 'शठः' वक्राचारः ॥ ५ ॥ 'स्त्रीविषयगृद्धः ' स्त्रीषु विषयेषु च अभिकाङ्क्षावान्, 'चः' समुच्चये, महान् - अपरिमितः आरम्भ: - अनेकजन्तूपघातकृत् व्यापारः परिग्रहश्च - धान्यादिसञ्चयो यस्य स तथोक्तः, 'भुञ्जानः' अभ्यवहरन् 'सुरां' मदिराम्, 'मांसं' पिशितम्, 'परिवृढः' उपचितमांसशोणिततया तत्तत्क्रियासमर्थः, अत एव 'परंदमः' अन्येषां दमयिता ॥६॥ किच – अजस्य - छागस्य कर्करं यत् चनकवद् भक्ष्यमाणं कर्करायते तथेह प्रस्तावादतिपकं मांसं तद्भोजी, अत एव 'तुन्दिल:' जातबृहज्जठरः 'चितलोहितः ' उपचितशोणितः, शेषधातूपलक्षणमेतत्, 'आयुः' जीवितं 'नरके' सीमन्तकादौ काङ्क्षति तद्योग्यकर्माऽऽरम्भितया । कमिव क इव ? इत्याह- "जहाऽऽएस व एलए" त्ति आदेशमिव यथा एडक:-उक्तरूपः । इह च 'हिंसेत्यादिना सार्द्ध लोकेनाऽऽरम्भ उक्तः, 'भुञ्जमाणे' त्यादिना चार्द्धद्वयेन गृद्धिः, 'आयुरित्यादिना चार्द्धेन दुर्गतिगमनं प्रत्यपायरूपमिति सूत्रत्रयार्थः ॥ ७ ॥ इदानीं साक्षादैहिकापायप्रदर्शनायाऽऽह
आसणं सयणं जाणं, वित्तं कामाणि भुंजिया । दुस्साहडं धणं हेच्चा, बहुं संचिणिया रयं ॥ ८ ॥ तओ कम्मगुरू जंतू, पशुप्पन्नपरायणे । अए व आगयाएसे, मरणंतम्मि सोयइ ॥ ९ ॥ व्याख्या - आसनं शयनं यानं भुक्त्वा इति सम्बन्धनीयम् । 'वित्तं' द्रव्यं 'कामान्' शब्दादीन् 'भुक्त्वा' उपभुज्य । दुःखेन संहियते -मील्यते स्म दुःसंहृतं 'धनं' द्रव्यम्, उक्तञ्च - " अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं, घिगर्थं दुःखभाजनम् ॥ १ ॥” 'हित्वा' द्यूतायसद्व्ययेन त्यक्त्वा, यदुक्तम् – “द्यूतेन मद्येन पणाङ्गनाभिस्तोयेन भूपेन
सप्तमं औरश्रीयम
ध्ययनम् ।
दान्तिक -
योजना ।
॥ ११७ ॥