SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ पञ्चनिम्रन्थवक्तव्यता। REARN ka कर्त्तव्यः ? इत्याह-पक्षीव पक्षी, "पत्त" त्ति पात्र' पतद्ब्रहादिभाजनम् उपलक्षणत्वात् शेषोपकरणं च, 'समादाय' गृहीत्वा परिव्रजेदिति सम्बन्धः। यथा पक्षी पक्षसञ्चयं गृहीत्वा गच्छति एवमसावपि इत्यर्थः, 'निरपेक्षः' निरभिलाषः तथा च प्रतिदिनं संयमपलिमन्थमीरुतया पात्रादिसन्निधिकरणे न दोष इति सूत्रार्थः ॥ १६ ॥ यदुक्तं निरपेक्षः परिव्रजेदिति तद् अभिव्यक्तीकर्तुमाह एसणासमिए लज्जू, गामे अणियओ चरे । अप्पमत्तो पमत्तेहि, पिंडपायं गवेसए ॥१७॥ व्याख्या-एषणायाम्-उत्पादनग्रहणप्रासविषयायां समितः-उपयुक्तः एषणासमितः, अनेन निरपेक्षत्वमुक्तम् । "लज्जु" त्ति लज्जा-संयमस्तद्वान् ग्रामे उपलक्षणत्वाद् नगरादौ च 'अनियतः' अनियतवृत्तिः 'चरेत्' विहरेत्, अनेनापि निरपेक्षता एवोक्ता । चरंश्व किं कुर्यात् ? इत्याह-अप्रमत्तः 'प्रमत्तेभ्यः' गृहस्थेभ्यः, ते हि विपयादिप्रमादसेवनात् प्रमत्ता उच्यन्ते, "पिण्डपातं' भिक्षा गवेषयेदिति सूत्रार्थः॥ १७ ॥ इत्थं प्रसक्तानुप्रसक्त्या संयमस्वरूपमुक्तम् , तदुक्को शाच निम्रन्थस्वरूपम् , सम्प्रत्यत्रैवाऽऽदरोत्पादनार्थमाह एवं से उदाहु अणुत्तरनाणी, अणुत्तरदंसी अणुत्तरनाणदसणधरे। . अरहा नायपुत्ते भगवं, वेसालीए वियाहिए ॥१८॥ त्ति बेमि ॥ व्याख्या-'एवम्' अमुना प्रकारेण "से" इति 'सः' भगवान् "उदाहु" त्ति उदाहृतवान् । 'अनुत्तरज्ञानी' सर्वोत्कृष्टज्ञानवान्, गौरखवद् मत्वर्थीयः, अन्यथा बहुव्रीहिरेव स्यादत्र । तथा अनुत्तरं-सर्वोत्कृष्टं पश्यतीत्यनुत्तरदर्शी, सामान्यविशेषग्राहितया च दर्शनज्ञानयोर्भेदः । यत उक्तम्-" सामन्नग्गहणं, दसणमेयं विसेसियं नाणं" ति । १ पतन्तं वायत इति पत्रं पक्षसञ्चयः।। २ “यसामान्यग्रहणं दर्शनमेतत् विशेषितं ज्ञानम् ।" -
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy