________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघु
वृत्तिः।
धानप्रस्ताव बाद पानस्य च'
॥११४॥
XOXOXOXOXOXOXOXOXOXOXXX
तयाऽपि आस्तामन्यदा, एवं सति शरीरधारणमप्ययुक्तम् , तद्धारणे सति आकाङ्क्षासम्भवात, अत आह-पूर्व-पूर्वकालभावि | SI यत् कर्म तत्क्ष्यार्थ इदं 'देह' शरीरं 'समुद्धरेत्' उचिताऽऽहारादिभोगतः परिपालयेत् , तद्धारगस्य शुद्धिहेतुत्वात् । यदु
क्षुल्लकनितम्-"सवत्थ संजमं सं-जमाउ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ, पुणो वि सोही न याविरई ॥१॥" ततः ग्रंन्थीयमशरीरोद्धरणमपि निरभिष्वङ्गतयैव विधेयमिति सूत्रार्थः ॥ १४॥ यथा च देहपालनेऽपि नाभिष्वङ्गः तथा दर्शयितुमाह- ध्ययनम् । विविच कम्मुणो हेउं, कालकंखी परिवए। मातं पिंडस्स पाणस्स, कडं लभ्रूण भक्खए ॥१५॥
पञ्चनिर्ग्रन्थव्याख्या-'विविच्य' पृथकत्य 'कर्मणः' ज्ञानावरणादेः 'हेतुम्' उपादानकारणं मिथ्यात्वाविरत्यादि, कालम्-अनु- वक्तव्यता। ष्ठानप्रस्ताव काङ्कत्येवंशीलः कालकाङ्की परिव्रजेदिति पूर्ववत् 'मात्रां' यावत्या संयमनिर्वाहस्तावती ज्ञात्वेति गम्यते, 'पिण्डस्य' ओदनादेः 'पानस्य च' आयामादेः, खाद्यवाद्यानुपादानं यतेः प्रायस्तत्परिभोगासम्भवात् । 'कृतम्' आत्मार्थमेव निर्वतितं गृहिभिरिति गम्यते । प्रक्रमात् पिण्डादिकमेव 'लब्ध्वा' प्राप्य 'भक्षयेत्' अभ्यवहरेदिति सूत्रार्थः ॥ १५ ॥ कदाचिद् भुक्तशेवं धारयितुमभिष्वङ्गसम्भवः स्यादित्याहसन्निहिं च ण कुवेजा, लेवमायाए संजए। पक्खी पत्तं समादाय, निरवेक्खो परिवए ॥१६॥
व्याख्या-'सन्निधिम्' अन्यदिनभोजनार्थं भक्तादिस्थापनं न कुर्वीत । 'चः' पूर्वापेक्षया समुच्चये। लेपमात्रया' यावता | पात्रमुपलिप्यते तावत्परिमाणमपि सन्निधिं न कुर्वीत आस्तां बहुं, 'संयतः' यतिः। किमेवं पात्राद्युपकरणसन्निधिरपि न
४॥ १ "सर्वत्र संयम संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात् , पुनरपि शोधिर्न चाविरतिः ॥ १॥" २ "ईषदर्थे क्रियायोगे, मर्यादायां परिच्छदे । परिमितौ धने चेति, मात्राशब्दः प्रकीर्तितः ॥ १॥"