SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ पञ्चनिर्ग्रन्थवक्तव्यता। शरीरा वर्णादिमन्तश्च भविष्यामः?, 'कायेन' रसायनाद्युपयोगेन, 'वाक्येन' वचसा रसायनादिप्रश्नात्मकेन, 'सर्वे निरव| शेषाः 'ते' ज्ञानादेव मुक्तिरित्यादिवादिनः 'दुःखसम्भवाः' इहान्यजन्मनि च दुःखभाज इति सूत्रार्थः ॥ १२ ॥ यथैवते दुःखभाजनं तथा दर्शयन्नुपदेशसर्वस्वमाह आवण्णा दीहमद्धाणं, संसारम्मि अणंतए । तम्हा सवदिसं पस्स, अप्पमत्तो परिवए ॥१३॥ ___ व्याख्या-'आपन्नाः' प्राप्ताः 'दीर्घम्' अनाद्यनन्तं अध्वानमिव 'अध्वानम्' उत्पत्तिप्रलयरूपम् एकत्रावस्थितेरभावात् । 'संसारे' चतुर्गतिके 'अनन्तके' अपर्यवसाने "तम्ह" त्ति यस्मादेवमेते मुक्तिपरिपन्थिनो दुःखसम्भवाः तस्मात् , “सबदिसं" ति सर्वदिशः-प्रस्तावाद् अशेषभावदिशः, ताश्च पृथिव्याद्यष्टादशभेदाः । उक्तञ्च-"पुढवि-जल-जलण-वाया, मूला खंध-ऽग्ग-पोरबीया य । बितिचउपणिंदितिरिया, नारया देवसंघाया ॥१॥ सम्मुच्छिम-कम्मा-ऽकम्म-भूमिगनरा तहतरद्दीवा । भावदिसा दिस्सइ जं, संसारी निययमेयाहिं ॥ २॥" पश्यन् 'अप्रमत्तः' प्रमादरहितो यथतेषामेकेन्द्रियादीनां विराधना न भवति तथा 'परिव्रजेः' संयमाध्वनि यायाः सुशिष्य ! इति सूत्रार्थः ॥ १३ ॥ यथा चाऽप्रमत्तेन प्रव्रजितव्यं तथा दर्शयितुमाहबहिया उड्डमादाय, नाऽवकंखे कयाइ वि । पुवकम्मक्खयहाए, इमं देहं समुद्धरे ॥१४॥ ___ व्याख्या-"बहिय" त्ति 'बहिः' बहिर्भूतं भवादिति गम्यते, 'ऊर्द्धम्' सर्वोपरिस्थितम् अर्थात् मोक्षम् 'आदाय' | गृहीत्वा मयैतदर्थ यतितव्यमिति निश्चित्य 'नावकाङ्केत्' विषयादिकं नाऽभिलषेत् 'कदाचिदपि' उपसर्गपरीषहाऽऽकुलित| "पृथिवी-जल-ज्वलन-वाताः, मूला-स्कन्धा-ऽग्र-पर्वबीजानि च । द्वि-त्रि-चतुः-पञ्चेद्रियतिर्यशश्च नारका देवसाताः ॥ १॥ सम्मूछिम-कर्मा-ऽकर्मभूमिगनरास्तथाऽऽन्तरद्वीपाः । भावदिशः दिश्यते यत् , संसारी नियतमेताभिः ॥२॥"
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy