SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ FOXCXCXXCXXXCXCXCXXX नम्' आहारं न तु गृहस्थपात्रे बहुदोषसम्भवात् । यदुक्तम् — “पेच्छाकम्मं पुरेकम्मं, सिया तत्थ ण कप्पइ । एयमहं न भुंजंति, निग्गंथा गिहिभायणे ॥ १ ॥" अनेन परिग्रहात्मकाऽऽश्रवनिरोध उक्तः, तदेवं “तन्मध्य पतितः तद्ग्रहणेन गृह्यते" इति न्यायात्, मृषावादा ऽदत्तादानमैथुनात्मकाऽऽश्रवत्रयनिरोध उक्त इति सूत्रार्थः ॥ ८ ॥ एवं पञ्चाश्रवविरमणात्मके संयम उक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाह इहमेगे उ मन्नंति, अप्पञ्चक्खाय पावगं । आयारियं विदित्ता णं, सङ्घदुक्खा विमुच्चइ ॥ ९ ॥ व्याख्या – 'इह' जगति 'एके' केचन कुतीर्थिकाः 'तुः' पुनरर्थे, 'मन्यन्ते' अभ्युपगच्छन्ति यथा 'अप्रत्याख्याय' अनिराकृत्य 'पापकं' प्राणातिपातादिविरतिम् अकृत्वैव "आयारियं" ति 'आचारिकं' निजनिजाऽऽचारभवमनुष्ठानमेव तत् 'विदित्वा' यथावत् ज्ञात्वा 'सर्वदुःखात्' शारीरमानसाद् विमुच्यते । एवं सर्वत्र ज्ञानमेव मुक्त्यङ्गम्, न चैतच्चारु, नहि रोगिण इवौषधादिपरिज्ञानतो भावरोगेभ्यः ज्ञानावरणादिकर्म्मभ्यो महाव्रतात्मकपञ्चाङ्गोपलक्षितक्रियामननुष्ठाय मुक्ति: । ते चैवमनालोचयन्तो भवदुःखाऽऽकुलिता वाचालतयैवाऽऽत्मानं स्वस्थयन्ति । तथा चाह भता अकरंता य, बंधमोक्खपइन्निणो । वायाविरियमेत्तेणं, समासासंति अप्पयं ॥ १० ॥ व्याख्या – 'भणन्तः' प्रतिपादयन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति, अकुर्वन्तश्च मुक्त्युपायमनुष्ठानम्, बन्धमोक्षयोः प्रतिज्ञा - अभ्युपगमो बन्धमोक्षप्रतिज्ञा तद्वन्तः अस्ति बन्धः अस्ति मोक्ष इत्येवं वादिन एव केवलं न तु तथाऽनुष्ठा| यिनः, वाग्वीर्यम् - वचनशक्तिः वाचालतेति यावत् तदेवाऽनुष्ठानशून्यं वाग्वीर्यमात्रं तेन 'समाश्वासयन्ति' ज्ञानादेव वयं मुक्तियायिन इति स्वस्थयन्त्यात्मानमिति सूत्रार्थः ॥ १० ॥ यथैतत् न चारु तथा स्वत एवाह १ “पश्चात्कर्म पुरःकर्म, स्यात्तत्र न कल्पते । एतदर्थं न भुञ्जन्ति, निर्ग्रन्था गृहिभाजने ॥ १॥" पञ्चनिर्मन्थवक्तव्यता ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy