________________
इत्याह- नैव त्रायन्ते भवात् दुष्कृतकर्म्मणो वेति गम्यते । कीदृशम् ? 'दुःशीलं दुराचारं “परियागयं" ति 'पर्यायगतं ' प्रत्रज्यापर्यायप्राप्तम्, आर्षत्वाच्च यकारस्यैकस्य लोपः । न हि कषायकलुषचेतसो बहिर्बकवृत्तिरतिकष्टहेतुरपि नरकादिकुगतिनिवारणायाऽलम् । ततो न लिङ्गधारणं वैशिष्ट्यहेतुरिति सूत्रार्थः ॥ २१ ॥ आह— कथं गृहाद्यभावेऽप्यमीषां दुर्गति: ? इत्युच्यतेपिंडोल व दुस्सीलो, णरगाओ ण मुच्चइ । भिक्खाए वा गिहत्थे वा, सुबए कमई दिवं ॥ २२ ॥ व्याख्या - वाशब्दोऽपिशब्दार्थः, ततश्च 'पिण्डावलगकोऽपि स्वकीयाहाराभावतो भैक्ष्यसेव्यपि, आस्तां गृहादिमान, दुःशीलः 'नरकात् ' स्वकर्मोपस्थापितात् सीमन्तकादेर्न मुच्यते । अत्र चोदाहरणं तथाविधद्रमकः । तत्र च सम्प्रदायः -
रायगिहे नयरे एगो पिंडोलओ उज्जाणियाए विणिग्गए जणे भिक्खं हिंडइ । न य तस्स किंचि केणइ दिन्नं । ततो पढचित्तो सो तेसिं बेभारपञ्चयकडगसन्निविद्वाणं पवओवरिं चडिऊण महइमहालियं सिलं चालेइ । 'एएसि उवरि पाडेमि' त्ति रोज्झाई विच्छुट्टिऊण तओ सिलाओ निवडिओ सिलातले संचुन्नियसबकाओ य मरिऊण अप्पइट्ठाणे नरए समुप्पन्नो । तर्हि किमत्र तत्त्वतः सुगतिहेतुः ? इत्याह – “भिक्खाए व " त्ति मिक्षामत्ति-भक्षयति मिक्षादः, वा विकल्पे, अनेन यतिरुक्तः, गृहे तिष्ठति गृहस्थः स वा, शोभनं निरतिचारतया सम्यग्भावाऽनुगततया च व्रतं - शीलं व्रतपालनात्मकमस्येति सुत्रतः 'क्रामति' गच्छति 'दिवं' देवलोकम् । मुख्यतो मुक्तिहेतुत्वेऽपि व्रतपरिपालनस्य दिवं क्रामतीत्यभिधानं जघन्यतोऽपि देवलोकप्राप्तिरिति ख्यापनार्थम् । उक्तं हि - "अविराहियसामण्ण-स्स साहुणो सावगस्स य जहण्णो । उदवाओ सोहम्मे, भणिओ तेलुकदंसीहिं ॥ १ ॥ " अनेन प्रतपालनमेव तत्त्वतः सुगतिद्देतुरित्युक्तमिति सूत्रार्थः ॥ २२ ॥ यद्वतयोगाद् गृहस्थोऽपि दिवं क्रामति तद्वक्तुमाह
१ "भविराधितश्रामण्यस्य, साधोः श्रावकस्य च जघन्येन । उपपातः सौधर्मे, भणितत्रैलोक्यदर्शिभिः ॥ १ ॥ "
सकाममरणस्वरूपम् ।