SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनमिच- न्द्रीया सुखबोधाख्या लघुवृत्तिः । पञ्चम अकाममरणीयाख्यमध्ययनम्। सकाममरणस्वरूपम्। ॥१०७॥ अगारिसामाइयंगाई, सड्डी काएण फासए । पोसहं दुहओ पक्खं, एगराई न हावए ॥२३॥ व्याख्या-अगारिणः-गृहिणः सामायिक-सम्यक्त्व-श्रुत-देशविरतिरूपं तस्याङ्गानि-निःशङ्कता-कालाध्ययना-ऽणुब्रतादिरूपाणि अगारिसामायिकाङ्गानि “सड्डि" त्ति सूत्रत्वात् श्रद्धा-रुचिरस्याऽस्तीति श्रद्धावान् कायेनेत्युपलक्षणत्वात् | मनसा वाचा च 'स्पृशति' सेवते । 'पौषधम्' आहारपौषधादि "दुहओ पक्खं" ति प्राकृतत्वाद् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपौर्णमास्यादिषु तिथिषु “एगराई" ति अपेर्गम्यमानत्वाद् एकरात्रिमपि, उपलक्षणत्वाच्च एकदिनमपि, “न हावए" त्ति न हापयति । रात्रिग्रहणं च दिवा व्याकुलतया कर्तुमशक्नुवन् रात्रावपि पौषधं कुर्यात् । इह च देशविरतिसामायिकाङ्गत्वेनैव सिद्धे यदस्य भेदेनोपादानं तदादरख्यापनार्थमदुष्टमेवेति सूत्रार्थः ॥ २३ ॥ प्रस्तुतमेवार्थमुपसंहर्जुमाह एवं सिक्खासमावन्ने, गिहवासे वि सुबए । मुच्चइ छविपवाओ, गच्छे जक्खसलोगयं ॥ २४॥ | व्याख्या-'एवम्' अमुनोक्तेन न्यायेन शिक्षया-व्रताऽऽसेवनात्मिकया समापन्नः शिक्षासमापन्नः गृहवासेऽपि आस्तां | प्रत्रज्यापर्याय इत्यपिशब्दार्थः, 'सुव्रतः' शोभनव्रतो मुच्यते । कुतः ? छविश्व-त्वक् पर्वाणि च-जानुकूर्परादीनि छविपर्व तद्योगाद् औदारिकशरीरमपि छविपर्व ततः। तदनन्तरं च 'गच्छेत्' यायाद् यक्षाः-देवाः, समानो लोकोऽस्येति सलोकस्तद्भावः सलोकता, यक्षैः सलोकता यक्षसलोकता ताम् , इयं च देवगतावेव भवति इत्यर्थाद् देवगतिमिति । अनेन च पण्डितमरणावसरे प्रसङ्गतो बालपण्डितमरणमुक्तमिति सूत्रार्थः ॥ २४॥ साम्प्रतं प्रस्तुतमेव पण्डितमरणं फलोपदर्शनद्वारेणाह अह जे संवुडे भिक्खू, दोण्हमन्नयरे सिया। सबदुक्खप्पहीणे वा, देवे वा वि महिड्डिए ॥२५॥ व्याख्या-'अथेति उपप्रदर्शने, 'यः' इत्यनिर्दिष्टनिर्देशे, 'संवृतः' इति पिहितसमस्ताऽऽश्रवद्वारः 'भिक्षु'रिति भावमिक्षुः स च द्वयोः 'अन्यतरः' एकतरः स्यात् । तदाऽऽह-सर्वाणि-अशेषाणि यानि दुःखानि-क्षुत्पिपासेष्टवियोगाऽनिष्ट ॥१०७॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy