SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ XOXO श्रीउत्तराध्ययनसूत्रे श्रीनैमिच न्द्रीया सुखबोधाख्या लघु वृत्तिः । ॥१०४॥ व्याख्या-"तओ" त्ति तकः 'ततो वा' दण्डारम्भणाापार्जितमलतः स्पृष्टः, केन ? 'आतङ्केन' आशुघातिना पञ्चम शूलविसूचिकादिरोगेण, 'ग्लानः' मन्दः 'परितप्यते' बहिरन्तश्च खिद्यते । 'प्रभीतः' इति प्रकर्षेण त्रस्तः, कुतः ? अकाममर| "परलोयस्स" त्ति परलोकात् सुब्व्यत्ययेन पञ्चम्यर्थे षष्ठी । किमिति ? क्रियत इति कर्म-क्रिया तदनुप्रेक्षत इत्येवंशीलः | णीयाख्यकानुप्रेक्षी, यत इति गम्यते । कस्य ? आत्मनः, स हिंसाऽलीकभाषणादिकामात्मचेष्टां चिन्तयन् 'म किञ्चित् मया | मध्ययनम्। शुभमाचरितं किन्तु सदैवाजरामरवत् चेष्टितम्' इति चिन्तयन् चेतसि आतङ्कगतः खिद्यते । भवति हि विषयाकुलितचेतसोऽपि प्रायः प्राणोपरमसमयेऽनुतापः। तथा चाहुः-"कीरति जाइं जोव-णमएण अवियारिऊण कज्जाई । वयपरिणामे अकाममरसरियाई ताई हियए खुडुक्कंति ॥ १॥" ११ ॥ अमुमेवार्थ व्यक्तीकर्तुमाह णखरूपम्। सुया मे णरए ठाणा, असीलाणं च जा गई। बालाणं कूरकम्माणं, पगाढा जत्थ वेयणा ॥१२॥lal व्याख्या-'श्रुतानि' आकर्णितानि 'मे' मया नरके 'स्थानानि' कुम्भीवैतरण्यसिपत्रवनादीनि । तत्किमियताऽपि परितप्यते ? इत्याह-'अशीलानाम्' असदाचाराणां या 'गतिः' नरकादिका सा च श्रुता, कीदृशानाम् ? 'बालानाम्' अज्ञानां 'क्रूरकर्मणां' हिंस्र-मृषाभाषकादीनां 'प्रगाढाः' प्रकर्षवत्यः 'यत्र' यस्यां गतौ 'वेदनाः शीतोष्णशाल्मल्याश्लेषणादयः । तदयमस्याशयः-ममैवंविधानुष्ठानस्य एवंविधैव गतिरिति सूत्रार्थः ॥ १२ ॥ तत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं । आहाकम्मेहि गच्छंतो, सो पच्छा परितप्पह ॥ १३ ॥ व्याख्या-तत्रे'ति नरकेषु उपपाते भवं औपपातिक 'स्थान स्थितिः 'यथा' येन प्रकारेण भवतीति शेषः, 'मे'। al॥१०४॥ मया 'तत्' इत्यनन्तरोक्तपरामर्श 'अनुश्नुतम्' अवधारितं गुरुभिरुच्यमानमिति शेषः। औपपातिकमिति च ब्रुवतोऽस्याऽ "क्रियन्ते यानि यौवन-मदेनाविचार्य कार्याणि । वयःपरिणामे स्मृतानि, तानि हृदये खटस्कुर्वन्ति ॥१॥" XXXXXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy