SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ अकाममरणस्वरूपम्। OXOXOXOXOXOXOXOXOXOXXX एतदिति मन्यते । उपलक्षणत्वाद्भाषते च-'न मांसभक्षणे दोषो, न मद्ये न च मैथुने ।' इत्यादि । तदनेन मनसा वचसा कायेन वा सत्यत्वमस्योक्तमिति सूत्रार्थः॥ ९॥ पुनस्तद्वक्तव्यतामेवाह कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु । दुहओ मलं संचिणइ, सिसुणागो व महियं ॥१०॥ व्याख्या-“कायस" त्ति सूत्रत्वात् 'कायेन' शरीरेण 'वचसा' वाचा उपलक्षणत्वात् मनसा च 'मत्तः' दृप्तः । तत्र कायेन मत्तः मदान्धगजवत्, यतस्ततः प्रवृत्तिमान् यद्वा 'अहो! अहं बलवान् रूपवांश्च' इति चिन्तयन् । वचसा स्वगुणान् ख्यापयन् 'अहो! अहं सुखरः' इत्यादि वा चिन्तयन् । मनसा च मदाध्मातचेताः 'अहोऽहमवधारणाशक्तिमान्' इति वा मन्वानः । वित्ते' द्रविणे 'गृद्धः' गृद्धिमान् । चशब्दः भिन्नक्रमः, ततः स्त्रीषु च गृद्धः। तत्र 'वित्ते गृद्धः' इति अदत्तादानपरिग्रहोपलक्षणम् , तद्भावभावित्वात् तयोः। 'स्त्रीषु गृद्धः' इत्यनेन मैथुनाऽऽसेवित्वमुक्तम् , स हि नियः संसारसर्वस्वभूताः' इति मन्यते । तथा च तद्वचः- 'सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः॥१॥ तदभिरतिमांश्च मैथुनासेवी एव भवति । स एवंविधः किम् ? इत्याह-"दुहओ" ति द्विधा-द्वाभ्यां | रागद्वेषात्मकाभ्यां बहिरन्तःप्रवृत्त्यात्मकाभ्यां वा प्रकाराभ्यां 'मलम्' अष्टप्रकारं कर्म 'सञ्चिनोति' बध्नाति । क इव किम् ? | इत्याह-'शिशुनागः' गण्डूपदः-अलस इत्यर्थः, स इव मृत्तिकाम् । स हि स्निग्धतनुतया बही रेणुभिरेव गुण्ड्यते, तामेव चाभीते इति बहिरन्तश्च द्विधाऽपि मलमुपचिनोति तथाऽयमपि । एतद्दृष्टान्ताभिधाने त्वयमभिप्रायः-यथाऽसौ Halबहिरन्तश्च उपचितमलः खरतरदिवाकरकरनिकरसंस्पर्शतः शुष्यन्निहैव क्लिश्यति विनाशं चाऽऽनोति तथाऽयमप्युचितमल Xआशुकारिकर्मवशत इहैव जन्मनि क्लिश्यति विनश्यति चेति सूत्रार्थः ॥१०॥ अमुमेवार्थ व्यक्तीकर्तुमाह तओ पुट्ठो आयंकेणं, गिलाणो परितप्पइ। पभीओ परलोयस्स, कम्माणुप्पेही अप्पणो॥११॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy