SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ अकाममरणस्वरूपम्। यमाशयः-यदि गर्भजत्वं भवेद् भवेदपि तवस्थायां छेदभेदादिनारकदुःखान्तरम, औपपातिकत्वे तु अन्तर्मुहूर्तानन्तरमेव तथाविधवेदनोदय इति कुतस्तदनन्तरसम्भवः?। तथा चाऽऽह-"आहाकम्मेहिं" ति 'यथाकर्मभिः' गमिष्यमाणगत्यनुरूपैः तीव्रतीव्रतरायनुभावान्वितैः कर्मभिः 'गच्छन्' यान् तदनुरूपमेव स्थानं, 'सः' इति बालः 'पश्चात्' इति आयुषि हीयमाने 'परितप्यते' यथा 'धिक मामसदनुष्ठायिनम् , किमिदानीं मन्दभाग्यः करोमि ?' इत्यादि शोचत इति सूत्रार्थः॥१॥ अमुमेवार्थ दृष्टान्तद्वारेण द्रढयन्नाह जहासागडिओ जाणं, समं हेचा महापहं । विसमं मग्गमोइन्नो, अक्खे भग्गम्मि सोयइ ॥१४॥ व्याख्या-यथा 'शाकटिकः' गश्रीवाहकः "जाणं" ति 'जानन्' अवबुध्यमानः 'समम्' उपलादिरहितं 'हित्वा' त्यक्त्वा 'महापथं' विषममार्गम् 'अवतीर्णः' गन्तुं प्रवृत्तः 'अक्षे' धुरि 'भग्ने' खण्डिते शोचति 'धिङ् मे परिज्ञानं यजानन्नपि इत्थमपायमवाप्तवान्' इति सूत्रार्थः ॥ १४ ॥ सम्प्रत्युपनयमाह एवं धम्म विउक्कम्म, अहम्मं पडिवजिया। बाले मच्चमुहं पत्ते, अक्खे भग्गे व सोयइ ॥१५॥ व्याख्या-'एवम्' इति शाकटिक इव 'धर्म' सदाचारात्मक व्युत्क्रम्य विशेषेणोल्लक्ष्य 'अधर्म' धर्मप्रतिपक्षं हिंसादिकं 'प्रतिपद्य' अभ्युपगम्य 'बालः' अज्ञः 'मृत्युमुखं' मरणगोचरं 'प्राप्तः' गतः अक्षे भग्ने इव शोचति । किमुक्तं भवति?-यथा अक्षभङ्गे शाकटिकः शोचति तथाऽयमपि मरणात्मकं फलमनुभवन् आत्मानमनुशोचति, हा! किमेतन्मयाऽनुष्ठितम् ? इति सूत्रार्थः ॥ १५॥ शोचनानन्तरञ्च किमसौ करोति ? इत्याह तओ से मरणंतम्मि, बाले संतस्सई भया। अकाममरणं मरइ, धुत्ते वा कलिणा जिए॥१६॥ व्याख्या-'ततः' इत्यातकोत्पत्तौ यच्छोचनमुक्तं तदनन्तरं "से" ति स मरणमेवान्तो मरणान्तस्तस्मिन् उपस्थिते
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy