________________
XOXOX
अन्तिकमरणम् —— यानि नरकाद्यायुष्कतया कर्म्मदलिकान्यनुभूय म्रियते भृतो वा न पुनस्तान्यनुभूय मरिष्यति । एवं क्षेत्रादिष्वपि वाच्यम् ३ ।
वलन्मरणमाह – संजमजोगविसन्ना, मरन्ति जे तं वलायमरणं तु । भग्नत्रतपरिणतीनां व्रतिनामेवैतत् ४ । वशार्त्तमाह — इंदियविसयवसगया मरंति जे तं वसट्टं तु । दीपशिखावलोकनाकुलितपतङ्गवत् ५ ।
अन्तःशल्यमाह — " लेजाए गारवेण य, बहुस्सुयमएण वा वि दुश्चरियं । जे न कहिंति गुरूणं, न हु ते आराहगा हुंति ॥ १ ॥ गारवपंकनिबुड्डा अइआरं जे परस्स न कहेंति । दंसणनाणचरित्ते, ससल्लमरणं भवे तेसिं ॥ २ ॥” पुनगौरवाभिधानम् | अस्यैवाऽतिदुष्टताख्यापनार्थम् । परस्येति आचार्यादेः । एतस्यैव फलमाह – “ए ससलमरणं, मरिऊण महभए तह दुरंते । सुइरं भमंति जीवा, दीहे संसारकंतारे ॥ १ ॥” ६ ।
तद्भवमरणमाह – “मोत्तुं अकम्मभूमिय, नरतिरिए सुरगणे य नेरइए । सेसाणं जीवाणं, तब्भवमरणं तु के सिंचि ॥ १ ॥ " तुशब्दस्तेषामपि संख्येयवर्षायुषामेवेति विशेषख्यापकः ७ ।
बाल - पण्डित - मिश्रमरणान्याह — “अँविरयमरणं बालं, मरणं विरयाण पंडियं होइ । जाणाहि बाल - पंडियमरणं पुण देसविरयाणं ।। १ ।। ८-९-१० ।
१ " लज्जया गौरवेण च, बहुश्रुतमदेन वापि दुश्चरितम् । ये न कथयन्ति गुरुभ्यो न खलु ते आराधका भवन्ति ॥ १ ॥ गौरवपङ्क निमना, अतिचारं ये परस्य न कथयन्ति । दर्शन- ज्ञान चारित्रे, सशल्यमरणं भवेत् तेषाम् ॥ २ ॥”
२ "एतत् सशल्यमरणं, मृत्वा महाभये तथा दुरन्ते । सुचिरं भ्रमन्ति जीवा, दीर्घे संसारकान्तारे ॥ १ ॥ " ३ "मुक्त्वाऽकर्मभूमिजान् नरतिरश्चश्च सुरगणांश्च नैरयिकान् । शेषाणां जीवानां तद्भवमरणं तु केषाञ्चित् ॥ १ ॥” ४ “भविरतमरणं बालं, मरणं विरतानां पण्डितं भवति । जानीहि बाल-पण्डितमरणं पुनर्देशविरतानाम् ॥ १ ॥”
XOXOXOX
सप्तदशधा मरणविधि
विभागः ।