________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनैमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
चतुर्थ असंस्कृताख्यमध्ययनम् ।
विषय-कषायानां परिहारः।
॥९८॥
H
नयन्तीति मन्दाः । अथवा मन्दबुद्धित्वात् मन्दगमनत्वाद्वा 'मन्दाः' स्त्रियः सा एव स्पर्शप्रधानत्वात् स्पर्शाः । ततश्च मन्दाश्च स्पर्शाः बहूनां-कामिनां लोभनीयाः-गृद्धिजनकाः । 'चः' समुच्चये । स्पर्शाः प्राग्वद् बहून् लोभयन्ति-विमोहयन्ति बहुलोभनीयाः । अनेनात्याक्षेपकत्वमुक्तम् । अपेर्गम्यमानत्वात् 'तथाप्रकारेष्वपि' बहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु 'मनः' चित्तं 'न कुर्यात्' न निवेशयेत् । एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य । स तु कथं भवति ? अत आह-रक्षयेत्' निवारयेत् 'क्रोधं रोषम् , 'विनयेत्' अपनयेत् 'मानम्' अहङ्कारम्, 'मायां' परवचनबुद्धिरूपां 'न सेवेत' न कुर्यात् , 'प्रजह्यात्' परित्यजेत् 'लोभम्' अभिष्वङ्गस्वभावम् , तथा च क्रोधमानयोदे॒षात्मकत्वात् मायालोभयोश्च रागरूपत्वात् तन्निग्रह एव तत्परिहतिरिति भावनीयमिति सूत्रद्वयार्थः ॥ ११-१२ ॥ सम्प्रति यदुक्तम्-"तम्हा समुट्ठाय पहाय कामे" इत्यादि, तत् कदाचित् चरकादिष्वपि भवेत् इत्याह
जे संखया तुच्छ परप्पवाई, ते पिज्जदोसाणुगया परज्झा।
एए अहम्मु त्ति दुगुंछमाणो, कंखे गुणे जाव सरीरमेए ॥ १३ ॥ त्ति बेमि ॥ व्याख्या-'ये' इति अनिर्दिष्टस्वरूपाः, 'संस्कृताः' इति न तात्त्विकशुद्धिमन्तः किन्तूपचितवृत्तयः, अत एव | 'तुच्छाः' यदृच्छामिधायितया निस्साराः 'परप्रवादिनः' परतीर्थिकाः, ते किम् ? इत्याह-प्रेमद्वेषानुगताः । तथाहिसर्वथा संवादिनि भगवद्वचसि स्वकदाग्रहकरणं न रागद्वेषाभ्यां विनेति भावनीयम् । अत एव "परज्झा" "परवशा' रागद्वेषप्रस्ततया तत्तत्राः । यदि त एवंविधाः ततः किम् ? इत्याह-एते अधर्महेतुत्वात् अधर्मः 'इति' अमुनोल्लेखेन 'जुगुप्समानः' उन्मार्गयायिनोऽमी इति तत्स्वरूपमवधारयन् न तु निन्दन , निन्दायाः सर्वत्र निषेधात् ।
XOXOXOXOXXXXXXX
॥९८॥