SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXX संयमोपहतिहेतुकमपि शरीरं निर्जरालाभमभिलषता तल्लाभं यावद्धार्यमिति ।। न च तद्धारणे संयमोपरोध एव, यथाऽऽगमं हि प्रवृत्तस्य तत् तदुपष्टम्भकमेवेति भावनीयम् इत्यलं प्रसङ्गनेति सूत्रार्थः ।। ७ ।। सम्प्रति यदुक्तं 'जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं स्वातव्यत एव उताऽन्यथा ? इत्याह छंदं निरोहेण उवेइ मोक्खं, आसे जहा सिक्खियवम्मधारी । पुवाइ वासाई चरऽप्पमत्तो, तम्हा मुणी खिप्पमुवेइ मोक्खं ॥८॥ व्याख्या-छन्दोनिरोधेन' स्वच्छन्दतानिषेधेन उपैति 'मोक्षं मुक्तिम् , किमुक्तं भवति ?-गुरुपारतब्येण स्वाग्रहविरहेण तत्र तत्र प्रवर्त्तमानोऽपि सङ्केशविकल इति न कर्मबन्धभाक्, किन्त्वविकलचरणतया निर्जरणमेव प्राप्नोति । अप्रवर्त्तमानोऽपि आहारादिष्वाऽऽग्रहपरतया अनन्तसंसारिताद्यनर्थभाक् भवति । उक्तश्च-"छट्ठ-ऽढम. दसम-दुवा-लसेहि मास-ऽद्धमासखमणेहिं । अकरंतो गुरुवयणं, अणंतसंसारिओ होइ ॥१॥” तत् सर्वथा तत्परतत्रेणैव मुमुक्षुणा भाव्यम् । उक्तश्च-"नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥२॥" अत्र दृष्टान्तमाह-'अश्वः' तुरगो यथा शिक्षितः-वलानोत्प्लवनधावनादिशिक्षा ग्राहितो वर्मधारीतनुत्राणधारी, पदद्वयस्य कर्मधारयः । अनेन शिक्षकतत्रतयाऽस्य स्वातन्त्र्यापोहमाह । ततोऽयमर्थः-यथा अश्व स्वातव्यविरहात प्रवर्त्तमानः समरशिरसि न वैरिभिरुपहन्यत इति तन्मुक्तिमाप्नोति, स्वतबस्तु प्रथममशिक्षितो रणमाप्तः तैरुपहन्यते । अत्र च सम्प्रदायः १ उपघातः। २ “षष्ठा-ऽष्टम-दशम-द्वादशैर्मासा-ऽर्धमासक्षपणैः । अकुर्वाणो गुरुबचनं, अनन्तसांसारिको भवत्ति ॥१॥" | "ज्ञानस्य भवति भागी, स्थिरतरको दर्शने चारित्रे च । धन्या यावत्कथ, गुरुकृतवासं न मुञ्चन्ति ॥२॥" XOXOXOXOXOXOXXXkokoka
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy