________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ९४ ॥
XXXX
BXBXCXCXCXX
शरीरम् उक्तञ्च - "सत्थ- ऽग्गी-जल-सावय विसूइया-वाहि-अहिविसाईहिं । जज्जरमिणं सरीरं, उवक्कमेहिं बहुविहेहिं ॥ १ ॥ जं ऊसासायत्तं, देहं जीवस्स कयलिखंभसमं । जरडाइणिआवासं, का कीरउ तत्थ दीहासा ? ॥ २ ॥” एवं तर्हि किं कृत्यम् ? इत्याह – 'भारुण्डपक्षीव चराऽप्रमत्तः ' यथा भारुण्डपक्षी अप्रमत्तञ्चरति तथा त्वमपि प्रमादरहितः चर - विहितानुष्ठानमासेवस्व, अन्यथा हि यथा भारुण्डपक्षिणः पक्ष्यन्तरेण सहान्तर्वर्त्तिसाधारणचरणसम्भवात् स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः । उक्तञ्च - एकोदराः पृथग्ग्रीवा, अन्यान्यफलभक्षिणः । प्रमत्ता हि विनश्यन्ति, भारुण्डा इव | पक्षिणः ॥ १ ॥ तथा तवापि संयमजीवितभ्रंश एव प्रमाद्यत इति सूत्रार्थः || ६ || अमुमेवार्थं स्पष्टयन् आह-चरे पयाई परिसंकमाणो, जं किंचि पासं इह मन्नमाणो ।
लाभंतरे जीविय वूहइत्ता, पच्छा परिन्नाय मलावधंसी ॥ ७ ॥
व्याख्या- 'चरेत्' गच्छेत् मुनिरिति गम्यते, 'पदानि' पदनिक्षेपरूपाणि 'परिशङ्कमानः संयमविराधनाभीरुतया तदपायं विगणयन् किमित्येवम् ? अत आह— यत् किञ्चिद् दुश्चिन्तिताद्यपि प्रमादपदं पाशमिव 'पाश' बन्धहेतुतया 'मन्यमानः ' जानानः । अयमभिप्रायः - यथा भारुण्डपक्षी पदानि परिशङ्कमानश्चरति यत्किञ्चिद् दवरकादिकमपि पाशं मन्यमानः, तथा साधुरपि अप्रमत्तश्चरेत् । ननु यदि परिशङ्कमानश्चरेत् तर्हि सर्वथा जीवितनिरपेक्षेणैव प्रवर्त्तितव्यम्, तत्सापेक्षतायां हि कदाचिदुक्तदोषसम्भव इत्याशङ्कयाह — 'लाभान्तरे' अपूर्वार्थप्राप्तिविशेषे सति किमुक्तं भवति ? - यावद् विशिष्टतरसम्यग्दर्शनज्ञानावाप्तिः अतः सम्भवति तावद् इदं 'जीवितं' प्राणधारणारूपं 'बृंहयित्वा' अकालोपक्रम
१ "शस्त्राऽग्नि-जल-श्वापद- विसूचिका-व्याधि-अहि विषादिभिः । जर्जरमिदं शरीरं, उपक्रमैर्बहुविधैः ॥ १ ॥ यदुच्छ्वासायत्तं, देहं जीवस्य कदलिस्तम्भसमम् । जराडाकिन्यावास, का क्रियतां तत्र दीर्घाशा ? ॥ २ ॥"
8-0-0
XOXOXOXXX
चतुर्थ असंस्कृताख्यमध्यय
नम् ।
भावसुप्तेषु
तपखिनः
प्रतिबुद्धजीविनः ।
॥ ९४ ॥