________________
व्याख्या-"आहश्च" कदाचित् 'चण्डालीकम्' उक्तस्वरूपं 'कृत्वा' विधाय 'न निहुवीत' न कृतमिति नाऽपलपेत् 'कदाचिदपि' यदाऽपि परै!पलक्षितस्तदापीत्यर्थः, तर्हि किं कुर्यात् ? इत्याह-कृतं विहितं चण्डालीकादि कृतमिति कृतमेव 'भाषेत' ब्रूयाद् न भयलज्जादिभिरकृतमपि, तथा 'अकृतं तदेव 'नो कृतमिति' अकृतमेव भाषेत, न तु मायोपरोधादिना कृतमपि, अन्यथा मृपावादादिदोषसम्भवात् । इदं चात्राऽऽकूतम्-कथश्चिदतिचारसम्भवे लज्जाद्यकुर्वन् स्वयं गुरुसमीपमागम्य-"जहे बालो जंपतो, कजमकजं च उजुयं भणति । तं तह आलोएज्जा, मायामयविप्पमुक्को उ ॥ १॥” इत्याद्यागममनुसरन् मनःशल्यं यथावदालोचयेदिति सूत्रार्थः॥११॥ इहैवं पुनः पुनरुपदेशश्रवणाद् यदेव गुरूपदेशस्तदैव प्रवर्तितव्यं निवर्तितव्यं चेति स्यादाशङ्का तदपनोदायाऽऽहमा गलियस्सेव कसं, वयणमिच्छे पुणो पुणो । कसं व दटुमाइन्ने, पावगं परिवजए ॥१२॥
व्याख्या-मा' निषेधे, 'गल्यश्व इव' अविनीततुरङ्गम इव 'कसं' कसप्रहारं 'वचनं' प्रवृत्तिनिवृत्तिविषयमुपदेशं प्रस्तावाद् गुरूणाम् 'इच्छेत्' अभिलषेत् 'पुनः पुनः' वारं वारं, किं पुनः कुर्यात् ? इत्याह-'कसं' चर्मयष्टिं दृष्ट्वा 'आकीर्ण इव' विनीताश्व इव स्यात् , सम्बन्धात् प्रस्तावाच्छिष्यो गुरोराकारादि दृष्ट्वा 'पापकं' गम्यमानत्वादनुष्ठानं 'परिवर्जयेत्'
सर्वप्रकारैः परिहरेत् , उपलक्षणत्वादितरच्चाऽनुतिष्ठेत् , किमुक्तं भवति ?-यथाऽऽकीर्णोऽश्वः कसग्रहणादिनाऽऽरोहका|शयमुपलभ्य कसेनाऽशातित एव तदभिप्रायानुरूपं चेष्टते तथा सुशिष्योऽप्याकारादिभिराचार्याशयमवगम्य वचनेनाऽप्रेरित एव, मा भूदाचार्यस्य वचनायास इति सूत्रार्थः ।। १२ ॥ गल्याकीर्णतुल्ययोः शिष्ययोर्दोषगुणावाह
अणासवा थूलवया कुसीला, मिङ पिचंडं पकरंति सीसा ।
चित्ताणुया लहु दक्खोववेया, पसायए ते हु दुरासयं पि ॥ १३ ॥ । “यथा बालो जल्पन कार्यमकार्य चर्जुकं भणति । तत्तथाऽऽलोचयेन्मायामदविप्रमुक्तस्तु ॥ १॥"
XOXOXOXOXOXOXOXOXOXXX